स्रंसमानमुपयन्तरि वध्वाः
श्लिष्टवत्युपसपक्षि रसेन ।
आत्मनैव रुरुधे कृतिनेव
स्वसङ्गि वसनं जघनेन ॥

मल्लिनाथः स्रंसमानमिति ॥ उपयन्तरि भर्तरि रसेन । रागान्धतयेत्यर्थः । उपसपत्नि सपत्नीसमीपे । समीपार्थेऽव्ययीभावे नपुंसकह्रस्वत्वम् । श्लिष्टवति आश्लिष्टवति सति स्रंसमानं स्पर्शसुखपारवश्याद्भ्रश्यमानं तथापि स्वेदसङ्गि स्वेदेन सात्विकेन सक्तं वध्वा वसनं कृतिना कुशलेन । स्वस्येदं लाघवमिति जानतेवेत्यर्थः । जघनेन कर्त्रा आत्मनैव स्वयमेव रुरुधे रुद्धम् । सा तु न वेत्तीति भावः । स्वेदहेतुकस्य वसनरोधस्य स्वलाघवज्ञानहेतुकत्वमुत्प्रेक्ष्यते
छन्दः स्वागता [११: रनभगग]
छन्दोविश्लेषणम्
१० ११
स्रं मा मु न्त रि ध्वाः
श्लि ष्ट त्यु क्षि से
त्म नै रु रु धे कृ ति ने
स्व ङ्गि नं ने
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.