Loading data... On slow networks this could take a few minutes.
100%

आननैर्विचकसे हृषिताभि-
र्वल्लभानभि तनूभिरभावि ।
आर्द्रतां हृदयमाप च रोषो
लोलति स्म वचनेषु वधूनाम् ॥

मल्लिनाथः आननैरिति ॥ वल्लभानभि । वल्लभसमक्षमित्यर्थः । `अभिरभागे` (अष्टाध्यायी १.४.९१ ) इति लक्षणार्थकर्मप्रवचनीयत्वाद्द्वितीया । वधूनामाननैर्विचकसे विकसितम् । भावे लिट् । तनूभिरङ्गैर्हषिताभिः पुलकिताभिः । `हृषेर्लोमसु` (अष्टाध्यायी ७.२.२९ ) इतीडागमः । अभावि भूतम् । भावे लुङ् । हृदयं चार्द्रतामाप । काठिन्यं जहावित्यर्थः । वचनेषु रोषो लोलति चलति स्म । वचनगतो रोषो वक्रतापि निवृत्तेत्यर्थः । अत्र वधूष्वाननविकासाद्यनेकक्रियायौगपद्यात्समुच्चयालंकारः । `गुणक्रियायौगपद्यं समुच्चयः` इति लक्षणात्
छन्दः स्वागता [११: रनभगग]
छन्दोविश्लेषणम्
१० ११
नै र्वि से हृ षि ता भि
र्व ल्ल भा भि नू भि भा वि
र्द्र तां हृ मा रो षो
लो ति स्म ने षु धू नाम्
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.