Loading data... On slow networks this could take a few minutes.
100%

पतिवत्यभिमते मधुतु-
ल्यस्वादमोष्ठकं विददङ्क्षौ ।
लभ्यते स्म परिरक्ततयात्मा
यावकेन वियतापि युवत्याः ॥

मल्लिनाथः पीतवतीति ॥ विददङ्घौ विदंष्टुमिच्छौ । उपदंशेच्छावतीत्यर्थः । दंशेः सन्नन्तादुप्रत्ययः । अभिमते वल्लभे मधुना तुल्यस्वादं तुल्यरसं । तुल्यत्वं च हृद्यतामात्रेण नान्यथा विलक्षणरसस्य अनुपदंशत्वात् ओष्ठो रुचकमाभरणमिवेत्युपमितसमासः । रोचनायां तु रुचकमश्वाभरणमाल्ययोः` इति विश्वः । तमोष्ठरुचकमोष्ठश्रेष्ठं पीतवति सति वियता अपगच्छतापि । इणो लटः शनादेशे `इणो यण` (६|४|८१) इति यणादेशः । युवत्याः युवतेः । `ङिति ह्रस्वश्व` (अष्टाध्यायी १.४.६ ) इति वा नदीत्वादाडागमः । यावकेनालक्तकेन परिरक्ततया दन्तनिष्पीडनकृतेन रागेण हेतुना आत्मा स्वरूपं लभ्यते स्म लब्धः । पुनरुद्भूतमित्यर्थः । अत्राधरपानादपगतस्यापि यावकस्य रागप्रादुर्भावनिमित्ता विरोधगर्भा पुनरुद्भवोत्प्रेक्षा व्यञ्जकाप्रयोगाद्गम्या च
छन्दः स्वागता [११: रनभगग]
छन्दोविश्लेषणम्
१० ११
ति त्य भि ते धु तु
ल्य स्वा मो ष्ठ कं वि ङ्क्षौ
भ्य ते स्म रि क्त या त्मा
या के वि ता पि यु त्याः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.