Loading data... On slow networks this could take a few minutes.
100%

दीपितस्मरमुरस्यपपीडं
वल्लभे घनमभिष्वजमाने ।
वक्रतां न ययतुः कुचकुम्भौ
सुभ्रुवः कठिनतातिशयेन ॥

मल्लिनाथः दीपितेति ॥ वल्लभे दीपितस्मरमुद्दीपितकामं यथा तथा उरस्युपपीडमुरस्युपपीड्य । `सप्तम्यां चोपपीडरुधकर्ष-` (अष्टाध्यायी ३.४.४९ ) इति णमुल् । `तत्पुरुषे कृति बहुलम्` (अष्टाध्यायी ६.३.१४ ) इत्यलुक् । घनं गाढमभिष्वजमाने परिरम्भमाणे सति । `परिरम्भः परिष्वङ्गः संश्लेष उपगूहनम्` इत्यमरः । सुभ्रुवः कुचकुम्भौ कठिनतातिशयेन वक्रतां परिमण्डलता न ययतुर्न प्राप्तौ । अत्र गाढालिङ्गनात् कुचकुम्भयोर्वक्रत्वसंबन्धेऽप्यसंबन्धोक्तेरतिशयोक्तिरलंकारः
छन्दः स्वागता [११: रनभगग]
छन्दोविश्लेषणम्
१० ११
दी पि स्म मु स्य पी डं
ल्ल भे भि ष्व मा ने
क्र तां तुः कु कु म्भौ
सु भ्रु वः ठि ता ति ये
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.