Loading data... On slow networks this could take a few minutes.
100%

स्नहनिर्भरमदत्त
वधूनामार्द्रतां वपुरसंशयमन्त्- ।
अः यूनि गाढपरिरम्भिणि
वस्त्रक्नोपमम्बु ववृषे यदनेन ॥

मल्लिनाथः स्नेहेति ॥ स्नेहनिर्भरं प्रेमरसपूर्णं तैलादिकद्रवद्रव्यपूर्णं च । `स्नेहोऽस्त्री द्रवहार्दयोः` इति वैजयन्ती । अत एव वधूनां वपुरन्तरार्द्रतां द्रवत्वमधत्त । स्नेहद्रव्यसंपूर्णमन्तराद्रं भवतीति भावः । असंशयं संशयस्याभावः । अर्थाभावेऽव्ययीभावः । कुतः । यद्यस्माद्यूनि पुंसि गाढं परिरम्भत इति परिरम्भिणि गाढाश्लेषिणि सति अनेन वपुषा का वस्त्रं नोपयित्वा परिषिच्य वस्त्रक्नोपम् । क्नूयीधातोर्ण्यन्तात् `अर्तिह्री-` (अष्टाध्यायी ७.३.३६ ) इत्यादिना पुगागमे, `चेले क्नोपेः` (अष्टाध्यायी ३.४.३३ ) इति णमुल् । अम्बु ववृषे । वृषेः कर्मणि लिट् । अन्तरार्द्रस्य निष्पीडनाद्बहिरम्बुस्रावसंभवात्तन्निमित्तेयमन्तरार्द्रत्वोत्प्रेक्षा । प्रियाङ्गसङ्गात् ताः स्विन्ना इति सात्विकोदयोक्तिः
छन्दः आर्यागीतिः []
छन्दोविश्लेषणम्
१० ११ १२ १३
स्न नि र्भ त्त
धू ना मा र्द्र तां पु सं न्तः
यू नि गा रि म्भि णि
स्त्र क्नो म्बु वृ षे ने
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.