कोपवत्यनुनयानगृहीत्वा
प्रागथो मधुमदाहितमोहा ।
कोपितं विरहखेदितचित्ता
कान्तमेव कलयन्त्यनुनिन्ये ॥

मल्लिनाथः कोपवतीति ॥ प्राक् प्रथमं कोपवती सरोषा अत एवानुनयान् प्रियप्रार्थनानि अगृहीत्वा अनादृत्य । अथो संप्रति विरहखेदितचित्ता पश्चात्तापतप्ता काचिन्मधुमदेनाहितमोहा कृतचित्तविभ्रमा सती कान्तमेव कोपितमात्मना रोषितं कलयन्ती जानती अनुनिन्ये । सापराधाहं क्षमस्वेति प्रार्थितवती । मत्तेषु किं न संभावितमिति भावः । एषा कलहान्तरिता
छन्दः स्वागता [११: रनभगग]
छन्दोविश्लेषणम्
१० ११
को त्य नु या गृ ही त्वा
प्रा थो धु दा हि मो हा
को पि तं वि खे दि चि त्ता
का न्त मे न्त्य नु नि न्ये
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.