सन्तमेव चिरप्रकृतत्वा-
दप्रकाशितमद्द्युतङ्गे ।
विभ्रमं मधुमदः प्रमदानां
धातुलीनमुपसर्ग इवार्थम् ॥

मल्लिनाथः सन्तमिति ॥ मधुमदः प्रमदानामङ्गे वपुषि अन्यत्र `यस्मात्प्रत्ययविधि:-` (अष्टाध्यायी १.४.१३ ) इत्युक्तलक्षणे प्रकृत्याख्ये शब्दरूपे । चिरं सर्वदा सन्तमेव । एकत्र स्वभावात् , अन्यत्र त्वनेकार्थत्वाद्धातूनामिति भावः । किंचाप्रकृतत्वादप्रस्तुतत्वात् । अप्रसक्तत्वादिति भावः । अप्रकाशितमव्यञ्जितं विभ्रमं विलासं धातौ भूवादिके लीनं गूढमर्थमभिधेयं उपसर्गः प्रादिरिव अदिद्युतद्द्योतयति स्म । श्रुतेः `णौ चङ्युपधाया ह्रस्वः` (अष्टाध्यायी ७.४.१ ) `द्युतिस्त्राप्योः संप्रसारणम्` (अष्टाध्यायी ७.४.६७ ) इत्यभ्यासस्य संप्रसारणमिकारः । उपसर्गस्य धातुलीनार्थद्योतकत्वमादानसंदानादावनुसंधेयम् । उपमालंकारः
छन्दः स्वागता [११: रनभगग]
छन्दोविश्लेषणम्
१० ११
न्त मे चि प्र कृ त्वा
प्र का शि द्द्यु ङ्गे
वि भ्र मं धु दः प्र दा नां
धा तु ली मु र्ग वा र्थम्
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.