६.७
रतिपतिप्रहितेव कृतक्रुधः
प्रियतमेषु वधूरनुनायिका ।
बकुलपुष्परसासवपेशल-
ध्वनिरगान्निरगात्मधुपावलिः ॥
प्रियतमेषु वधूरनुनायिका ।
बकुलपुष्परसासवपेशल-
ध्वनिरगान्निरगात्मधुपावलिः ॥
६.२१
अरुणिताखिशैलवना मुहु-
र्विदधती पथिकान्परितापिनः ।
विकचकिंशुकसंहतिरुच्चकै-
रुदवहद्दवहव्यवहश्रियम् ॥
र्विदधती पथिकान्परितापिनः ।
विकचकिंशुकसंहतिरुच्चकै-
रुदवहद्दवहव्यवहश्रियम् ॥
६.२४
निदधिरे दयितोरसि तत्क्षण-
स्पनवारितुषारभृतः स्तनाः ।
सरसचन्दनरेणुरनुक्षणं
विचकरे च करेण वरोरुभिः ॥
स्पनवारितुषारभृतः स्तनाः ।
सरसचन्दनरेणुरनुक्षणं
विचकरे च करेण वरोरुभिः ॥
६.२७
अनुययौ विविधोपलकुण्डल-
द्युतिवितानकसंवलितांशुकम् ।
धुततनुर्वलयस्य पयोमुचः
शबलिमा बलिमानमुषो वपुः ॥
द्युतिवितानकसंवलितांशुकम् ।
धुततनुर्वलयस्य पयोमुचः
शबलिमा बलिमानमुषो वपुः ॥
६.२८
द्रुतसमीरचलैः क्षणलक्षित-
व्यवहिता विटपैरिव मञ्जरी ।
नततमालनिभस्य नभस्तरो-
रचिररोचिररोचत वारिदैः ॥
व्यवहिता विटपैरिव मञ्जरी ।
नततमालनिभस्य नभस्तरो-
रचिररोचिररोचत वारिदैः ॥
६.३१
जलदपङ्क्तिरनर्तयदुन्मदं-
कलविलापि कलापिकदम्बकम् ।
कृतसमार्जनमर्दलमण्डल-
ध्वनिजया निजया स्वनसंपदा ॥
कलविलापि कलापिकदम्बकम् ।
कृतसमार्जनमर्दलमण्डल-
ध्वनिजया निजया स्वनसंपदा ॥
६.३९
विगतरागगुणोऽपि जनो न
कश्चलति वाति पयोदनभस्वति ।
अभिहितेऽलिभिरेवमिवोच्चकै-
रननृते ननृते नवपल्लवैः ॥
कश्चलति वाति पयोदनभस्वति ।
अभिहितेऽलिभिरेवमिवोच्चकै-
रननृते ननृते नवपल्लवैः ॥
॥ इति षष्ठः सर्गः (ऋतुवर्णनम्) ॥
Other texts to read
About
Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.