अनुवनं वनराजिवधूमुखे
बहलरागजवाधरचारुणि ।
विकचबाणवलयोऽधिकं
रुरुचिरे रुचिरेक्षणविभ्रमाः ॥

मल्लिनाथः अनुवनमिति ॥ अनुवनं प्रतिवनं बहलो रागो यस्याः सा चासौ जवा च । `औण्ड्पुष्पं जवा` इत्यमरः । पुष्पेषु जातीप्रभृतित्वात्स्वलिङ्गता । सैवाधरस्तेन चारुणि रम्ये वनराजिरेव वधूस्तस्या मुखं प्राग्भागस्तदेव मुखं वऋमिति श्लिष्टरूपकम् । तस्मिन् रुचिराणामीक्षणानां विभ्रम इव विभ्रमः शोभा यासां ताः विकचबाणदलावलयो नीलझिण्टीपत्रपङ्क्तयः । `बाणोऽस्त्री नीलझिण्ट्यां च` इति वैजयन्ती । अधिकं रुरुचिरे शुशुभिरे । उपमारूपकयोः संकरः
छन्दः द्रुतविलम्बितम् [१२: नभभर]
छन्दोविश्लेषणम्
१० ११ १२
नु नं रा जि धू मु खे
रा वा चा रु णि
वि बा यो ऽधि कं
रु रु चि रे रु चि रे क्ष वि भ्र माः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.