स्फुरदधीरतडिन्नयना मुहुः
प्रियमिवागलितोरुपयोधरा ।
जलधरावलिरप्रतिपालित-
स्वसमया समयाञ्जगतीधरम् ॥

मल्लिनाथः स्फुरदिति ॥ स्फुरन्ती अधीरे चञ्चले तडितौ नयने इव तडिन्नयने यस्याः सा अगलिता अरिक्ता उरुपयोधरा मेघा यस्याम् , अन्यत्र ऊरू च पयोधरौ च ऊरुपयोधरम् । प्राण्यङ्गत्वावन्द्वैकवद्भावः । न गलितं न पतितं यस्यां सा । जलधरावलिर्मेधपङ्क्तिः । अत्र जलधरावलेः पयोधराणां चावयवावयविभावात्पृथङ्गिर्देशः । अप्रतिपालितस्वसमया अनपेक्षितनिजवेला सती । एकत्र यौगपद्यादन्य त्राधैर्याच्चेति भावः । जगतीधरं रैवतकं भूधरं प्रियमिव समयात् समागच्छत् । यातेर्लङ् । पयोजगतीशब्दयोः पचाद्यजन्तेन धरशब्देन षष्ठीसमासः । अत्र विशेषणमहिम्ना जलधरावलौ नायिकात्वप्रतीतेः समासोक्तिः, सा तु प्रियमिवेत्युपमयाङ्गेन संकीर्यते
छन्दः द्रुतविलम्बितम् [१२: नभभर]
छन्दोविश्लेषणम्
१० ११ १२
स्फु धी डि न्न ना मु हुः
प्रि मि वा लि तो रु यो रा
रा लि प्र ति पा लि
स्व या या ञ्ज ती रम्
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.