मधुकरैरपवादकरैरिव
स्मृतिभुवः पथिकाः हरिणा इव ।
कलतया वचसः परिवादिनी-
स्वरजिता वशमाययुः ॥

मल्लिनाथः मधुकरैरिति ॥ मधुकरैः कर्तृभिः । अपवादं मृगवञ्चनाय घण्टादिकुत्सितवाद्यं कुर्वन्तीत्यपवादकरा व्याधास्तैरिव पथिका हरिणा इव परिवादिनीस्वरजिता वीणाविशेषध्वनिजयिन्या । `सप्तभिः परिवादिनी` इत्यमरः । जेः क्विपि तुक् । वचसो गीतस्य कलतया माधुर्येण करणेन रजिताः । आकृष्टाः सन्त इत्यर्थः । रञ्जय॑न्तात्कर्मणि क्तः । रञ्जो मृगरमणे-` (वा०) इति उपधानकारलोपः । इहोपमानमृगसादृश्यादौपचारिकं मृगत्वम् उपमेयेषु पथिकेष्वस्तीत्यविरोधः । स्मृतिभुवः स्मरस्य मृगपातचिन्ताविषयत्वान्मृगग्रहणगर्तदेशस्य च वशमाययुः । यथा व्याधगानासक्त्या गर्ते मृगाः पतन्ति तद्वन्मधुकरहुंकाराकृष्टाः पान्थाः स्मरपारवश्यं भेजुरित्यर्थः । अनेकैवेयमुपमा
छन्दः द्रुतविलम्बितम् [१२: नभभर]
छन्दोविश्लेषणम्
१० ११ १२
धु रै वा रै रि
स्मृ ति भु वः थि काः रि णा
या सः रि वा दि नी
स्व जि ता मा युः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.