Loading data... On slow networks this could take a few minutes.
100%

जगति नैशमशीतकरः करै-
र्वियति वारिदवृन्दमयं तमः ।
जलजराजिषु नैन्द्रमदिद्रव-
न्न महतामहताः क्व च नारयः ॥

मल्लिनाथः जगतीति ॥ अशीतकर उष्णांशुः करैः स्वांशुभिर्जगति लोके निशायां भवं नैशम् । `निशाप्रदोषाभ्यां च` (अष्टाध्यायी ४.३.१४ ) इति विकल्पादण् प्रत्ययः । तमस्तिमिरम् अदिग्रवद्रावयति स्म । निरस्तवानित्यर्थः । `द्रु गतौ` । णौ चङि उपधाहस्वः। सन्वद्भावः । `स्रवतिशृणोतिद्रतिप्रवतिप्लवतिच्यवतीनां वा` (अष्टाध्यायी ७.४.८१ ) इत्यभ्यासस्य विकल्पादित्वम् । वियत्याकाशे वारिदवृन्दमयं मेघसङ्घरूपम् । स्वार्थे मयट् । तमः अदिद्रवत् । जलजराजिषु निद्रामेव नैद्रं निमीलनं तदेव तमः अदिद्रवत् । तथा हि—महतां महात्मनां अरयः क्क च क्क वा न नाहताः अहता न । किंतु सर्वत्र हता भवन्तीत्यर्थः । द्वितीयनिषेधप्रापितस्य प्रकृतार्थस्य हननस्य तृतीयेन निषेधः । पुनः क्केति क्कशब्दसामर्थ्यात् प्रकृतार्थपर्यवसानम् । वैधर्म्येण सामान्याद्विशेषसमर्थनरूपोऽर्थान्तरन्यासः
छन्दः द्रुतविलम्बितम् [१२: नभभर]
छन्दोविश्लेषणम्
१० ११ १२
ति नै शी रः रै
र्वि ति वा रि वृ न्द यं मः
रा जि षु नै न्द्र दि द्र
न्न ता ताः क्व ना यः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.