Loading data... On slow networks this could take a few minutes.
100%

मधुरया मधुबोधितमाधवी-
मधुसमृद्धिसमेधितमेधया ।
मधुकराङ्गनया मुहुरुन्मद-
ध्वनिभृता निभृताक्षरमुज्जगे ॥

मल्लिनाथः मधुरयेति ॥ मधुरया मनोहरया मधुना वसन्तेन बोधिताः विकासिताश्च ता माधव्यश्च । पुष्पधर्मः पुष्पितासूपचर्यते । तासां माधवीनामतिमुक्तलतानाम् । `अतिमुक्तः पुण्डूकः स्याद्वासन्ती माधवी लता` इत्यमरः । मधुसमृद्ध्या मकरन्दसंपदा समेधितमेधया संवर्धितप्रतिभया अत एव उन्मदयतीत्युन्मदो मदकरः । पचाद्यच् । तं ध्वनिं बिभर्तीत्युन्मदध्वनिभृत् तया मधुकराङ्गनया मुहुर्निभृताक्षरम् । लक्षणया स्थिरनादं यथा तथेत्यर्थः । अथवा सर्वः शब्दो वर्णात्मक एव व्यञ्जकविशेषाभावादस्फुट इति मतमाश्रित्योक्तं सर्वपथीनाः कवय इति । उज्जगे उच्चैर्गीतम् । गायतेरविवक्षितकर्मकाद्भावे लिट् । `बन्धवै. षम्यराहित्यं समता पदगुम्फने` इति लक्षणात्समताख्यो गुणः
छन्दः द्रुतविलम्बितम् [१२: नभभर]
छन्दोविश्लेषणम्
१० ११ १२
धु या धु बो धि मा वी
धु मृ द्धि मे धि मे या
धु रा ङ्ग या मु हु रु न्म
ध्व नि भृ ता नि भृ ता क्ष मु ज्ज गे
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.