Loading data... On slow networks this could take a few minutes.
100%

पटलमम्बुमुचां पथिकाङ्गना
सपदि जीवितसंशयमेष्यती ।
सनयनाम्बुसखीजन संभ्रमा-
द्विधुरबन्धुरबन्धुरमैक्षत ॥

मल्लिनाथः &#३२; पटलमिति ॥ पथिकाङ्गना काचित्प्रोषितभर्तृका अत एव सपदि जीवितसंशयं मरणमेष्यती । निश्चितमरणेत्यर्थः । `आच्छीनद्योर्नुम्` (७।१८०) इति विकल्पाबुमभावः । अत एव सनयनाम्बोः सबाष्पस्य सखीजनस्य संभ्रमाक्षोभाद्विधुरबन्धुः संभ्रमदर्शनाद्विह्वलबन्धुजना सती अम्बुमुचां पटलमबन्धुरमशोभनम् । सदैन्यरोषमिति यावत् । ऐक्षत । ईक्षतेर्लङ् `आटश्च` (अष्टाध्यायी ६.१.९० ) इति वृद्धिः । इह विरहवेदनाक्षमाया नायिकाया मरणसाधनमेघपटलावेक्षणवर्णनायां तदुद्योगलक्षणा मरणावस्थोक्ता । सा हि द्विविधा तदुद्योगस्तद्योगश्चेत्याहुः । `दृङ्मनःसङ्गसंकल्पा जागरः कृशता रतिः । ह्रीत्यागोन्मादमूर्ध्वान्ता इत्यनङ्गदशा दश ॥` इत्यवस्थासंग्रहः
छन्दः द्रुतविलम्बितम् [१२: नभभर]
छन्दोविश्लेषणम्
१० ११ १२
म्बु मु चां थि का ङ्ग ना
दि जी वि सं मे ष्य ती
ना म्बु खी सं भ्र मा
द्वि धु न्धु न्धु मै क्ष
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.