Loading data... On slow networks this could take a few minutes.
100%

अरमयन्भवनादचिरद्युतेः
किल भयादमपयातुमनिच्छवः ।
यदुनरेन्द्रगणं तरुणागणा-
स्तमथ मन्मथमन्थरभाषिणः ॥

मल्लिनाथः अरमयन्निति ॥ अचिरद्युतेर्विद्युतो भयात्किल भयादिव न तु तथा । किंतु रागादेवेति भावः । किलेत्यलोके । भवनाद्गणगृहादपयातुं निर्गन्तुमनिच्छवः । भयव्याजात्तत्रैव स्थिता इति भावः । `विन्दुरिच्छुः` (अष्टाध्यायी ३.२.१६९ ) इत्युप्रत्ययान्तो निपातः । मन्मथेन मन्थरमलसं भाषन्त इति मन्मथमन्थरभाषिणः । कामवशा इत्यर्थः। तरुणीगणास्तं प्रकृतं यदव एव नरेन्द्रास्तेषां गणमरमयन् रमयन्ति स्म । अत्र भयेन रागनिगूहनान्मीलनालंकारः । `मीलनं वस्तुना यत्र वस्त्वन्तरनिगृहनम्` इति लक्षणात् । सोऽप्यागन्तुकेन भयेन सहजरागतिरोधानादागन्तुकेन सहजतिरोधानरूपः ॥ इति वर्षावर्णनम्
छन्दः द्रुतविलम्बितम् [१२: नभभर]
छन्दोविश्लेषणम्
१० ११ १२ १३
न्भ ना चि द्यु तेः
कि या या तु नि च्छ वः
दु रे न्द्र णं रु णा णा
स्त न्म न्थ भा षि णः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.