स विकचोत्पलचक्षुषमैक्षत
क्षितिभृतोऽङगगतां दयितामिव ।
शरदमच्छगलद्वसनोपमा-
क्षमधनामघनाशनकीर्तनः ॥

मल्लिनाथः स इति ॥ अघानां नाशनं निवर्तनं कीर्तनं यस्य सोऽघनाशनकीर्तनः स हरिर्विकचमुत्पलमेव चक्षुर्यस्यास्तामच्छं शुभ्रं गलत् स्रंसमानं यद्वसनं तस्योपमा सादृश्यं तस्याः क्षमा योग्या घना मेघा यस्यां सा ताम् । अत एव क्षितिभृतोऽङ्कगतामुत्सङ्गगतां दयितामिवेत्युत्प्रेक्षा । शरदमैक्षत
छन्दः द्रुतविलम्बितम् [१२: नभभर]
छन्दोविश्लेषणम्
१० ११ १२ १३
वि चो त्प क्षु मै क्ष
क्षि ति भृ तो ऽङ तां यि ता मि
च्छ द्व नो मा
क्ष ना ना की र्त नः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.