स्मराहुताशनमुर्मुरचूर्णतां दधुरिवाम्रवनस्य रजःकणाः । निपातिताः परितः पथिकव्रजानुपरि ते परितेपुरतो भृशम् ॥
स्मराहुताशनमुर्मुरचूर्णतां दधुरिवाम्रवनस्य रजःकणाः । निपातिताः परितः पथिकव्रजानुपरि ते परितेपुरतो भृशम् ॥
मल्लिनाथः
स्मरेति ॥ आम्रवणस्य चूतवनस्य । `आम्रश्चूतो रसालश्च` इत्यमरः । `प्रनिरन्तःशर-` (८/४/५) इत्यादिना वननकारस्य णत्वम् । रजःकणाः परागचूर्णाः स्मरहुताशनः कामाग्निः स एव मुर्मुरस्तुषाग्निः `मुर्मुरस्तु तुषानलः` इति वैजयन्ती । तस्य चूर्णतां दधुरिवेत्युत्प्रेक्षा । अतो मुर्मुरचूर्णत्वादेव परित उपरि निपतितास्ते रजःकणाः पन्थानं गच्छन्तीति पथिकाः । `पथः कन्` (अष्टाध्यायी ५.१.७५ ) इति कन्प्रत्ययः । तेषां व्रजान् भृशं परितेपुः परितापयामासुः । अतो मुर्मुरचूर्णत्वोत्प्रेक्षणमिति भावः
Other texts to read
About
Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.