निजरजः पटवासमिवाकिर-
द्धृतपटोपमवारिमुचां दिशां ।
प्रियवियुक्तवधूजनचेतसा-
मनवनी नवनीपवनावलिः ॥

मल्लिनाथः निजेति ॥ प्रियवियुक्तवधूजनचेतसाम् । कर्मणि षष्ठी । अनवनी अरक्षणी । किंतु हन्त्रीत्यर्थः । अवतेः कर्तरि ल्युटि ङीप् । नवनीपवनावलिः नवकदम्बकाननपङ्क्तिः । धृताः पटोपमाः पटकल्पा वारिमुचो मेघा याभिस्ताः । मेघपटावृता&#३२; इत्यर्थः । तासां दिशां निजरजः स्वपरागं पटवासं पिधानमिवेत्युत्प्रेक्षा । अकिरदक्षिपत् । सखीवदिति भावः
छन्दः द्रुतविलम्बितम् [१२: नभभर]
छन्दोविश्लेषणम्
१० ११ १२
नि जः वा मि वा कि
द्धृ टो वा रि मु चां दि शां
प्रि वि यु क्त धू चे सा
नी नी ना लिः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.