Loading data... On slow networks this could take a few minutes.
100%

स्फुटमिवोज्वलकाञ्चकान्तिभि-
र्युतमशोकमशोभत चम्पकैः ।
विरहिणां हृदयस्य भिदाभृतः
कपिशितं पिशितं मदनाग्निना ॥

मल्लिनाथः स्फुटमिति ॥ उज्ज्वलकाञ्चनकान्तिभिः शुद्धसुवर्णप्रभैश्चम्पकैर्युतम् । चम्पकसमूहमध्यगतमित्यर्थः । स्फुटं विकचमशोकपुष्पं भिदा भेदः । `षिद्भिदादिभ्योऽङ्` (अष्टाध्यायी ३.३.१०४ ) तां बिभर्ति यत्तस्य भिदाभृतो भिन्नस्य विरहिणां हृदयस्य हृदयपिण्डस्य संबन्धि मदनाग्निना कपिशितं कपिशीकृतं पिशितं मांसमिवाशोभतेत्युप्रेक्षा
छन्दः द्रुतविलम्बितम् [१२: नभभर]
छन्दोविश्लेषणम्
१० ११ १२
स्फु मि वो ज्व का ञ्च का न्ति भि
र्यु शो शो म्प कैः
वि हि णां हृ स्य भि दा भृ तः
पि शि तं पि शि तं ना ग्नि ना
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.