Loading data... On slow networks this could take a few minutes.
100%

इदमपास्य विरागि
परागीरलिकदम्बकमम्बुरुहां तत्- ।
ईः स्तनभरेण जितस्त-
बकानमन्नवलते वलतेऽभिमुखं तव ॥

मल्लिनाथः इदमित्यादि ॥ स्तनभरेण साधनेन जिताभ्यां स्तबकाभ्यामानमन्ती नवलता यया सा तथोक्ता तस्याः संबुद्धिर्जितस्तबकानमन्नवलते स्तबकानमन्नवलतोपमे [* अत्र `विशेषकेन` इति पाठः साधीयान् , यतः-`द्वाभ्यां युग्ममिति प्रोक्तं त्रिभिः श्लोकैर्विशेषकम् । कलापकं चतुर्भिः स्यात्तदूर्ध्व कुलकं स्मृतम् ।` इति तल्लक्षणात् । ]&#३२; इत्यर्थः । अत एवेदं विरागि विरक्तिमदलिकदम्बकं परागिणीः परागवतीरिति विरक्तिहेतूक्तिः । अम्बुरुहां ततीरपास्य तवाभिमुखं वलते चलति । विशिष्टल. ताभ्रमादिति भावः । तथा च भ्रान्तिमदलंकारो व्यज्यते
छन्दः आर्यागीतिः []
छन्दोविश्लेषणम्
१० ११ १२ १३ १४ १५
पा स्य वि रा गि
रा गी लि म्ब म्बु रु हां तीः
स्त रे जि स्त
का न्न ते ते ऽभि मु खं
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.