Loading data... On slow networks this could take a few minutes.
100%

विगतसस्यजिधत्समघट्टय-
त्कलमगोपवधूर्न मृगव्रजम् ।
श्रुततदीरितकोमलगीतक-
ध्वनिमिषेऽनिमेषेक्षणमग्रतः ॥

मल्लिनाथः विगतेति ॥ इषे आश्वयुजमासे । `स्यादाश्विन इषोऽप्याश्वयुजः` इत्यमरः । कलमगोपी शालिगोप्त्री सा चासौ वधूश्च कलमगोपवधूः । `स्त्रियाः पुंवत्-` (अष्टाध्यायी ६.३.३४ ) इत्यादिना पुंवद्भावः । श्रुत आकर्णितस्तया वध्वा ईरितस्यालापितस्य कोमलगीतकस्य मधुरगानस्य ध्वनिर्येन तं श्रुततदीरितकोमलगीतकध्वनिम् । अत एवाग्रतोऽग्रे न निमिषति विस्मयानन्दाभ्यामित्यनिमिषम् । इगुपधलक्षणः कप्रत्ययः । तदीक्षणं यस्य तमनिमिषेक्षणम् । घस्तुमत्तुं वेच्छा जिघत्सा । घसेरदादेशाद्वा सन्नन्तात् `अ प्रत्ययात्` (अष्टाध्यायी ३.३.१०२ ) इति स्त्रियामप्रत्ययः । विगता सस्यस्य जिघत्सा यस्य तं विगतसस्यजिघत्सम् । उपसर्जनाङ्गस्वः । मृगव्रजं नाघट्टयन्नाताडयत् । सिद्धे साधनाप्रयोगादिति भावः । अत्र दण्डसाध्ये मृगनिवारणे काकतालीयन्यायेन सुखार्थस्य गानस्य कारणत्वकथनात् समाधिरलंकारः । `कारणान्तरयोगात् कार्यसुकरत्वं समाधिः` इति सूत्रात्
छन्दः द्रुतविलम्बितम् [१२: नभभर]
छन्दोविश्लेषणम्
१० ११ १२
वि स्य जि त्स ट्ट
त्क गो धू र्न मृ व्र जम्
श्रु दी रि को गी
ध्व नि मि षे ऽनि मे षे क्ष ग्र तः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.