प्रवसतः सुतरामुदक-
म्पयद्विलकन्दलकम्पनलालितः
नमयति स्म वनानि
मनस्विनीजननमनो घनमारुत्-
अः

मल्लिनाथः प्रवसत इति ॥ कन्दली भूकन्दली । `द्रोणपर्णी स्निग्धकन्दा कन्दली भूमिकन्दली` इति शब्दार्णवः । तस्याः पुष्पाणि कन्दलानि । `फले लुक्` (अष्टाध्यायी ४.३.१६३ ) इत्यणो लुक् । विदलानां विकचानां कन्दलानां कम्पनेनावधूननेन लालित उपस्कृतो मनस्विनीजनस्य मनसां नमनो नमयिता । मानिनीमानभञ्जन इत्यर्थः । कर्तरि ल्युट् । घनमारुतो मेघवायुः वनानि नमयति स्म । प्रवसतः प्रोषितान् सुतरामुदकम्पयत् उद्वेजितवान् । मनस्विनीमानमर्दनस्य वननमनं प्रोषितकम्पनं वा कियदिति भावः
छन्दः गीतिः
छन्दोविश्लेषणम्
१० ११ १२ १३
प्र तः सु रा मु
म्प द्वि न्द म्प ला लि तः
ति स्म ना नि
स्वि नी नो मा रु तः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.