रुरुधिषा वदनाम्बुरुहश्रियः
सुतनु सत्मलङ्करणाय ते ।
तदपि सम्प्रति सन्निहिते मधा-
वधिगमं धिगमङ्गलमश्रुणः ॥

मल्लिनाथः रुरुदिषेति ॥ हे सुतनु शुभाङ्गि, `अम्बार्थनद्योर्ह्रस्वः` (७।३।१०७) इति ह्रस्वत्वम् । दीर्घोत्तरपदो बहुव्रीहिः, अन्यथा गुणः स्यात् । रुरुदिषा रोदनेच्छा। अश्रुविमोचनमित्यर्थः । रुदः सन्नन्तादप्रत्यये टाप् । ते तव वदनाम्बुरुहश्रियोऽलं. करणाय सत्यम् । `रम्याणां विकृतिरपि श्रियं तनोति` (किरातार्जुनीये ७।५) इति न्यायादिति भावः । गम्यमानक्रियापेक्षत्वाच्चतुर्थी । तदपि तथापि संप्रति मधौ वसन्ते संनिहिते संनिहितोत्सवे सति अश्रुणोऽधिगमं प्राप्तिममङ्गलं धिक् निन्दतीत्यर्थः । `धिक निर्भर्त्सननिन्दयोः` इत्यमरः । `धिगुपर्यादिषु त्रिषु` इति द्वितीया । अतो मा रुद इत्यर्थः
छन्दः द्रुतविलम्बितम् [१२: नभभर]
छन्दोविश्लेषणम्
१० ११ १२
रु रु धि षा ना म्बु रु श्रि यः
सु नु त्म ङ्क णा ते
पि म्प्र ति न्नि हि ते धा
धि मं धि ङ्ग श्रु णः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.