कनकभङ्गपिशङ्गदलैर्दधे
सरजसारुणकेशरचारुभिः ।
प्रियविमानितमानवतीरुषां
निरसनैरसनैरवृथार्थता ॥

मल्लिनाथः कनकेति ॥ कनकभङ्गाः स्वर्णखण्डा इव पिशङ्गानि दलानि येषां तैः सह रजसा सरजसम् । `अचतुर-` (अष्टाध्यायी ५.४.७ ) इत्यादिना साकल्यार्थेऽव्ययीभावे समासान्तो निपातः । बहुव्रीह्यर्थे लक्षणया तु सरजस्का इत्यर्थः । अत एव न सरजसमित्यव्ययीभाव इति वामनः । अथवा महाकविप्रयोगप्राचुर्यदर्शनादव्ययीभावदर्शनं प्रायिकमिति पक्षाश्रयणाद्वहुव्रीह्यर्थोऽपि साधुरेव । तथा च सरजसं सरजसा वा ये अरुणकेशरास्तैश्चारुभिः तथा प्रियैर्विमानिता अवमानिता मानवत्यो मानिन्यस्तासां या रुषो रोषास्तासां निरसनैर्निरासकैः । अस्यतेः कर्तरि ल्युट् । असनैः प्रियकप्रसूनैः । `सर्जकासनबन्धूकपुष्पप्रियकजीवकाः` इत्यमरः । अवृथार्थता माननि रासकत्वादस्यन्तीत्यसनानीत्यन्वर्थनामकत्वं दधे दध्रे । दधातेः कर्मणि लिट्
छन्दः द्रुतविलम्बितम् [१२: नभभर]
छन्दोविश्लेषणम्
१० ११ १२
ङ्ग पि ङ्ग लै र्द धे
सा रु के चा रु भिः
प्रि वि मा नि मा ती रु षां
नि नै नै वृ था र्थ ता
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.