Loading data... On slow networks this could take a few minutes.
100%

ददतमन्तरिताहिमदीधितिं
खगकुलाय कुलायनिलायिताम् ।
जलदकालमबोधकृतं दिशा-
मपराथाप रथवयवायुधः ॥

मल्लिनाथः ददतमिति ॥ रथावयवायुधश्चक्रायुधो हरिरन्तरिताहिमदीधितिं तिरोहितोष्णांशुं तथा खगकुलाय पक्षिसङ्घाय । कुलायेषु नीडेषु निलीयन्त इति कुलायनिलायिनः। `कुलायो नीडमस्त्रियाम्` इत्यमरः । तेषां भावस्तत्ता तां ददतं प्रयच्छन्तम् । पक्षिसंचारं प्रतिबन्धन्तमित्यर्थः । `नाभ्यस्ताच्छतुः` (अष्टाध्यायी ७.१.७८ ) इति नुरप्रतिषेधः । दिशामिति कर्मणि षष्ठी । अबोधकृतमबोधकारिणम् । मेघावरणेन&#३२; प्राच्यादिविवेकं लुम्पन्तमित्यर्थः । जलदकालं प्रावृदकालमपरथा प्रकारान्तरेण आप प्राप । मेघोदयोपाधिना प्रावृड्व्यवहारभाजं तमेव कालं मेघात्ययोपाधिना शरत्संज्ञयोपलेभे इत्यर्थः । कालो हि एक एव सन्ननेकोपाधिसंबन्धान्नानात्वेनोपचर्यत इति तद्विदः
छन्दः द्रुतविलम्बितम् [१२: नभभर]
छन्दोविश्लेषणम्
१० ११ १२
न्त रि ता हि दी धि तिं
कु ला कु ला नि ला यि ताम्
का बो कृ तं दि शा
रा था वा यु धः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.