Loading data... On slow networks this could take a few minutes.
100%

शमिततापमपोढमहीरजः
प्रथमबिन्दुभिरम्बुमुचोऽम्भसां ।
प्रविरलैरचलाङ्गनमङ्गना-
जनसुगं न सुगन्धि न चक्रिरे ॥

मल्लिनाथः शमितेति ॥ अम्बुमुचो मेघाः प्रविरलैरम्भसां प्रथमबिन्दुभिः शमिततापमपोढमहीरजो निरस्तधूलिकम् । न तु पङ्कितमिति भावः । सुगन्धि संतप्तसेकादुद्भूतसौरभम् । इह तदेकान्तत्वाद्गन्धस्येत्वम् । अचलाङ्गनं रैवतकाङ्गनम् । `अङ्गनं चत्वराजिरे` इत्यमरः । अङ्गनाजनस्य सुखेन गच्छत्यस्मिन्निति सुगम् । सुखसंचारमित्यर्थः । `सुदुरोरधिकरणे` (वा०) इति गमेर्डप्रत्यये टिलोपः । न न चक्रिरे । चक्रिरे इत्यर्थः । द्वौ नजौ प्रकृतमर्थं गमयतः
छन्दः द्रुतविलम्बितम् [१२: नभभर]
छन्दोविश्लेषणम्
१० ११ १२
मि ता पो ही जः
प्र बि न्दु भि म्बु मु चो ऽम्भ सां
प्र वि लै ला ङ्ग ङ्ग ना
सु गं सु न्धि क्रि रे
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.