विलुलितालकसंहृतिरामृश-
न्मृगदृशां श्रमवारि ललाटजम् ।
तनुतरङ्गततिं सरसां दल-
त्कुवलयं वलयन्मरुदाववौ ॥

मल्लिनाथः विलुलितेति ॥ विलुलितालकसंहतिर्विधुतचिकुरनिकरः सन् मृगदृशां ललाटजं श्रमवारि स्वेदमामृशन् परिमृजन् । मन्द इति भावः । सरसां तनुतरङ्गततिं&#३२; दलन्ति विकसन्ति कुवलयानि यस्मिन्कर्मणि तद्यथा तथा वलयंश्वालयन् । शीतल इति भावः । मरुद्वसन्तवायुराववौ आवाति स्म
छन्दः द्रुतविलम्बितम् [१२: नभभर]
छन्दोविश्लेषणम्
१० ११ १२
वि लु लि ता सं हृ ति रा मृ
न्मृ दृ शां श्र वा रि ला जम्
नु ङ्ग तिं सां
त्कु यं न्म रु दा वौ
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.