Loading data... On slow networks this could take a few minutes.
100%

सुरभिणिश्वसिते दधतस्तृषं
नवसुधामधुरे च तवाधरे ।
अलमलेरिव गन्धरसावमू
मम न सौमनसौ मनसो मुदे ॥

मल्लिनाथः सुरभीति ॥ तव सुरभिणि श्वसिते निश्वासमारुते नवसुधावन्मधुरे अधरे च तृषं तृष्णां दधतो दधानस्यालेभ्रमरस्य ममेवामू उपलभ्यमानौ सुमनसां पुष्पाणां संबन्धिनौ सौमनसौ गन्धरसौ सौरभमाधुर्ये मनसोऽन्तःकरणस्य मुदे नालं न पर्याप्तौ । अतस्त्वद्वदनरसगन्धलोभादागच्छतीत्यर्थः । `नमःस्वस्ति-` (अष्टाध्यायी २.३.१६ ) इत्यादिना चतुर्थी । अत्र कान्ताकर्तृकस्वयंग्रहाश्लेषसुखार्थिनः प्रियस्य तद्भयहेतोरलेरेवागमनहेतुत्वेनात्र दृष्टान्तेन मुखसौरभरसलोभभरकुसुमवैराग्ययो. र्वर्णयितुमौचित्याद्यमकानुसारेण विप्रकृष्टेनापि ममशब्देनेवशब्दस्यान्वयः । `वलते. ऽभिमुखं तव अलिभयादिव सस्वज` इत्युपक्रमोपसंहाराभ्यामलेः प्रकृतत्वेनोपमेयत्वावगमात् । अन्यथा मध्ये तद्वैपरीत्ये तद्विरोधादित्यलमहिचलनाध्वमार्गणेन । अत्रोपमानुप्रासयमकानां तावद्विजातीयानां संसृष्टिः स्पष्टैव । तथा यमकानां त्रयाणां चतुर्थपादादावेकस्मादक्षरात् , द्वाभ्यां, त्रिभ्यश्च परतोऽक्षरत्रयावृ. त्तिलक्षणानां स्थितत्वात् सजातीयसंसृष्टिश्चेष्टा
छन्दः द्रुतविलम्बितम् [१२: नभभर]
छन्दोविश्लेषणम्
१० ११ १२
सु भि णि श्व सि ते स्तृ षं
सु धा धु रे वा रे
ले रि न्ध सा मू
सौ सौ सो मु दे
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.