समभिसृत्य रसादवलम्बितः
प्रमदया कुसुमावचिचीर्षया ।
अविनमन्न रराजवृथोच्चकै-
रनृतया नृतया वनपादपः ॥

मल्लिनाथः समभिसृत्येति ॥ प्रमदया कर्व्या कुसुमानामवचिचीषया अवचेतुमिच्छया । रिरसयेति भावः । चिन्तेतेः सन्नन्तात् `अ प्रत्ययात्` (अष्टाध्यायी ३.३.१०२ ) इति स्त्रियामकारप्रत्ययः । `विभाषा चेः` इति विकल्पात् कुत्वाभावः। रसादागात् समभिसृत्य समागत्यावलम्बितो हस्तेन गृहीतस्तथाप्यविनमन् वशमगच्छन् अत एव वृथोच्चकैर्व्यर्थमुनतो वनपादपः । न तु नागरिक इति भावः । न ऋतेत्यनृता असत्या तथा अनृतया नुर्भावो नृता तया नृतया पुंस्त्वेन रराज । `स्युः पुमांसः पञ्चजनाः पुरुषाः पूरुषा नरः` इत्यमरः । यः कान्ताकरगृहीतोऽपि न द्रवति स नपुंसक एव, लौकिकस्तु पुंस्त्वव्यपदेशो मिथ्यैवेति भावः
छन्दः द्रुतविलम्बितम् [१२: नभभर]
छन्दोविश्लेषणम्
१० ११ १२
भि सृ त्य सा म्बि तः
प्र या कु सु मा चि ची र्ष या
वि न्न रा वृ थो च्च कै
नृ या नृ या पा पः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.