रतिपतिप्रहितेव कृतक्रुधः
प्रियतमेषु वधूरनुनायिका ।
बकुलपुष्परसासवपेशल-
ध्वनिरगान्निरगात्मधुपावलिः ॥

मल्लिनाथः रतिपतीति ॥ प्रियतमेषु विषये कृतक्रुधः कृतरुषः । `प्रतिघा रुट्क्रुधौ स्त्रियाम्` इत्यमरः । वधूरनुनायिकाः कुपितस्त्रीरनुनेष्यन्ती । `तमुन्ण्वुलौ क्रियायां क्रियायाम्` (अष्टाध्यायी ३.३.१० ) इति भविष्यदर्थे ण्वुल् प्रत्ययः । `अकेनोर्भविष्यदाधमर्ण्ययोः` (अष्टाध्यायी २.३.७० ) इति षष्ठीप्रतिषेधाद्वधूरिति द्वितीया । रतिपतिना कामेन प्रहिता प्रेषितेव तद्वाणीश्रवणानन्तरमेव तासां कोपत्यागदर्शनादियमुत्प्रेक्षा । बकुलपुष्पाणां रसो मकरन्दः स एवासवस्तेन तत्पानेन पेशलध्वनिर्मधुरस्वरा मधुपावलिः कर्त्री न गच्छतीत्यगादृशान्निरगान्निर्गता । इणो गा लुङि` (अष्टाध्यायी २.४.४५ ) इति गादेशः
छन्दः द्रुतविलम्बितम् [१२: नभभर]
छन्दोविश्लेषणम्
१० ११ १२
ति ति प्र हि ते कृ क्रु धः
प्रि मे षु धू नु ना यि का
कु पु ष्प सा पे
ध्व नि गा न्नि गा त्म धु पा लिः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.