Loading data... On slow networks this could take a few minutes.
100%

मुखसरोजरुचं मदपाटला-
मनुचकार चकोरदृशां यतः ।
धृतनवातपमुत्सुकतामतो
न कमलं कमलम्भयदम्भसि ॥

मल्लिनाथः मुखेति ॥ धृतो नवातपो येन तद्धृतनवातपम् । बालातपताम्रमित्यर्थः अम्भसि कमलं अम्भःस्थं कमलम् । अम्भोग्रहणं स्थलकमलनिवृत्त्यर्थम् , अम्लानताद्योतनार्थं वा । यतो मदपाटलां चकोरदृशां स्त्रीणां मुखसरोजरुचं मुखारविन्दशोभामनुचकार । `अनुपराभ्यां कृञः` (१३।७९) इति परस्मैपदनियमः । अतोऽनुकरणाद्धेतोः कं पुमांसमुत्सुकतां प्रेयसीमुखावलोकनकौतुकितां नालम्भयन्नागमयत् । सर्वं चालम्भयदेव । तत्स्मारकत्वादित्यर्थः । एतेनौत्सुक्यवस्तुना कार्येण&#३२; कारणभूता कमलदर्शनोत्था मुखस्मृतिर्व्यज्यत इति वस्तुनालंकारध्वनिः । एतेन स्त्रीमुखसादृश्यात् कमलं स्वाधारेऽम्भसि पुंस उत्सुकतामलम्भयदिति रङ्गराजव्याख्यानं `काकस्य कार्ष्ण्याद्धवलः प्रासादः` इतिवदसंगतं मन्तव्यमिति । अलम्भयदिति लभेर्ण्यन्ताल्लङ् `लभेश्च` (अष्टाध्यायी ७.४.६४ ) इति नुमागमः । लभेश्चात्र प्राद्युपसर्जनकगत्यर्थत्वात् `गतिबुद्धि-` (अष्टाध्यायी १.४.५२ ) इत्यादिना अणिकर्तुः कर्मत्वे द्विकर्मकता । गत्युपसर्जनकप्राध्यर्थत्वे तु वैपरीत्यमित्युक्तं `सितं सितिम्ना` (१२५) इत्यत्र
छन्दः द्रुतविलम्बितम् [१२: नभभर]
छन्दोविश्लेषणम्
१० ११ १२
मु रो रु चं पा ला
नु का को दृ शां तः
धृ वा मु त्सु ता तो
लं म्भ म्भ सि
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.