Loading data... On slow networks this could take a few minutes.
100%

समय एव करोति बलाबलं
प्रणिगतवन्त इतीव शरीरिणाम् ।
शरदि हंसरवाः परुषीकृत-
स्वरमयूरमयू रमणीयताम् ॥

मल्लिनाथः समय इति ॥ समयः काल एव शरीरिणां बलाबलं बलाबले । `विप्रतिषिद्धं चानधिकरणवाचि` (अष्टाध्यायी २.४.१३ ) इति विकल्पाद्धन्द्वैकवद्भावः । करोतीति प्रणिगदन्तः प्रतिपादयन्त इवेत्युत्प्रेक्षा । `नेर्गदनद-` (अष्टाध्यायी ८.४.१७ ) इत्यादिना णत्वम् । शरदि हंसरवाः परुषीकृतस्वरा निष्ठुरीकृतनादा मयूरा यस्मिन्कर्मणि तत्परुषीकृतस्वरमयूरं यथा तथा रमणीयतामयुः प्राप्ताः । यातेर्लङि `लङः शाकटायनस्यैव` (अष्टाध्यायी ३.४.१११ ) इति झेर्जुसादेशः, `उस्यपदान्तात्` (अष्टाध्यायी ६.१.९६ ) इति पररूपं संहितायां `ढूलोपे पूर्वस्य दीर्घोऽणः`। (अष्टाध्यायी ६.३.१११ ) शरत्प्रावृषोर्हसमयूरकूजिते माधुर्यामाधुर्यविपर्ययदर्शनात् काल एव प्राणिनां बलाबलनिदानं व्यक्तमभूदित्यर्थः
छन्दः द्रुतविलम्बितम् [१२: नभभर]
छन्दोविश्लेषणम्
१० ११ १२ १३
रो ति ला लं
प्र णि न्त ती री रि णाम्
दि हं वाः रु षी कृ
स्व यू यू णी ताम्
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.