अजगणन्गणशः प्रियमग्रतः
प्रणतमप्यभिमानितया न याः ।
सति मधावभवन्मदनव्यथा
विधुरिता धुरिताः कुकुरस्त्रियः ॥

मल्लिनाथः अजगणनिति ॥ याः कुकुरस्त्रियो यादवाङ्गनाः गणशो बहुशः । बह्वल्पार्थाच्छस् कारकादन्यतरस्याम्` (अष्टाध्यायी ५.४.४२ ) इति शस् प्रत्ययः । अग्रतः प्रणतमपि प्रियम् । जातावेकवचनम् । प्रियानित्यर्थः । अभिमानिनीनां भावोऽभिमानिता तया। `त्वतलोर्गुणवचनस्य पुंवद्भावो वक्तव्यः` (वा०)। नाजगणन्न गणयन्ति स्म । गणेश्चौरादिकाण्णौ चङि `ई च गणः` (अष्टाध्यायी ७.४.९७ ) इत्यभ्यासस्य पाक्षिक इत्वाभावः । ताः कुकुरस्त्रियो मधौ वसन्ते सति प्रवर्तमाने । `मधुश्चैत्रे वसन्ते च` इति विश्वः । मदनव्यथाविधुरिता विह्वलिताः सत्यः धुरि अग्रेऽभवन्नवर्तन्त । स्वयमेव पुरः प्रवृत्ता इत्यर्थः
छन्दः द्रुतविलम्बितम् [१२: नभभर]
छन्दोविश्लेषणम्
१० ११ १२
न्ग शः प्रि ग्र तः
प्र प्य भि मा नि या याः
ति धा न्म व्य था
वि धु रि ता धु रि ताः कु कु स्त्रि यः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.