Loading data... On slow networks this could take a few minutes.
100%

वदनसौरभलोभपरिभ्रम-
द्भ्रमरसंभ्रमसंभृतशोभया ।
चलितया विदधे कलमेखला-
कलकलोऽलकलोलदृशान्यया ॥

मल्लिनाथः वदनेति ॥ वदनस्य सौरभे सौगन्ध्ये लोभेन परिभ्रमता भ्रमरेण हेतुना यः संभ्रमस्तेन संभृतशोभया संपादितश्रिया चलितया अलिसंभ्रमात्प्रस्थितया अत एवालकैरलकपातैर्लोलदृशा चञ्चलाक्ष्या अन्यया स्यन्तरेण कलो मेखलायाः कलकलः कोलाहलो विदधे विहितः । अलिभयादपसरन्त्याः काञ्चीगुणध्वनिरजनीत्यर्थः । एतेन चकितत्वमुक्तम् । चकितं भयसंभ्रमः। अनुप्रासयमकयोः सजातीयशब्दालंकारयोः संसृष्टिः स्पष्टैव तावत् । तथा यमकयोश्च द्वयोः सजातीययोः&#३२; चतुर्थपादादावेकस्मादक्षराद्वाभ्यां च परतोऽक्षरत्रयावृत्तिलक्षणयोः स्थितत्वात् सजातीययोः संसृष्टिः
छन्दः द्रुतविलम्बितम् [१२: नभभर]
छन्दोविश्लेषणम्
१० ११ १२
सौ लो रि भ्र
द्भ्र सं भ्र सं भृ शो या
लि या वि धे मे ला
लो ऽल लो दृ शा न्य या
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.