Loading data... On slow networks this could take a few minutes.
100%

नवपलाशपलाशवनं पुरः
स्फुटपरागपरागतपङ्कजम् ।
मृदुलतान्तलतान्तमलोकय-
त्स सुरभिं सुरभिं सुमनोभरैः ॥

मल्लिनाथः नवेति ॥ स हरिः पुरोऽग्रे प्रथमं वा नवपलाशानि नूतनपर्णानि पलाशवनानि किंशुककाननानि यस्मिंस्तं नवपलाशपलाशवनम् । बहुव्रीहिपूर्वपदो बहुव्रीहिः । `पलाशः किंशुके पत्रे पलाशम्` इति विश्वः । स्फुटानि विकचानि परागै रजोभिः परागतानि व्याप्तानि च पङ्कजानि यस्मिंस्तं स्फुटपरागपरागतपङ्कजं । मृदुलाः कोमला अत एव तान्ताः आतपसमये किंचिन्म्लाना लतान्ताः पल्लवा यस्मिंस्तं मृदुलतान्तलतान्तं सुमनोभरैः पुष्पसमृद्धिभिः सुरभिं सुगन्धिं सुरभिं वसन्तमलोकयदपश्यत् । `सुरभिश्चम्पके स्वर्णे जातीफलवसन्तयोः । सुगन्धौ च मनोज्ञे च वाच्यवत्` इति विश्वः । इह प्रतिपादं प्रथमाक्षरद्वयात् परतोऽक्षरत्रयावृत्तिरूपयमकप्रक्रमाच्चतुर्थपादेऽपि तदेव यमकम् । एकस्मादप्यपरमिति सजातीयसंसृष्टिः
छन्दः द्रुतविलम्बितम् [१२: नभभर]
छन्दोविश्लेषणम्
१० ११ १२
ला ला नं पु रः
स्फु रा रा ङ्क जम्
मृ दु ता न्त ता न्त लो
त्स सु भिं सु भिं सु नो रैः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.