Loading data... On slow networks this could take a few minutes.
100%

कुसुमकार्मुककार्मुकसंहित-
द्रुतशिलीमुखखण्डितविग्रहाः ।
मरणमप्यपराः प्रतिपेदिरे
किमु मुहुर्मुहुर्गतभर्तृकाः ॥

मल्लिनाथः कुसुमेति ॥ गतभर्तृका वियोगिन्यः । `नद्युतश्च` (अष्टाध्यायी ५.४.१५३ ) इति कप् । अपराः काश्चिदङ्गनाः कुसुमकार्मुकस्य कामस्य कार्मुके संहितैः द्रुतैर्जवनैः शिलीमुखैः शरैः खण्डितविग्रहाः पाटितशरीराः सत्यो मरणमपि प्रतिपेदिरे । मुहुः पुनःपुनः मुमुहुर्मुमूर्छुरिति किमु वक्तव्यमित्यर्थः
छन्दः द्रुतविलम्बितम् [१२: नभभर]
छन्दोविश्लेषणम्
१० ११ १२
कु सु का र्मु का र्मु सं हि
द्रु शि ली मु ण्डि वि ग्र हाः
प्य राः प्र ति पे दि रे
कि मु मु हु र्मु हु र्ग र्तृ काः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.