Loading data... On slow networks this could take a few minutes.
100%

न खलु दूरगतोऽप्यधिवर्तते
महमसाविति बन्धुतयोदितैः ।
प्रणयिनो निशमय्य वधूर्बहिः
स्वरमृतैरमृतैरिव निर्ववौ ॥

मल्लिनाथः (विशेषकम् ।) नेति ॥ किं चासौ ते प्रणयी दूरगतो दूरस्थोऽपि महं वसन्तोत्सवम् । `मह उद्धव उत्सवः` इत्यमरः । नातिवर्तते नातिकामति खलु इति बन्धुतया बन्धुसमूहेन । `ग्रामजनबन्धुसहायेभ्यस्तल्` (अष्टाध्यायी ४.२.४३ ) इति तल्प्रत्ययः । उदितैरुक्तैः । वदेः कर्मणि क्तः । ऋतैः सत्यवचनैः । `सत्यं तथ्यमृतं सम्यक्` इत्यमरः । बहिः प्रणयिनस्तदैव दैवादागतस्य प्रियस्य स्वरं कण्ठगतं शब्दं निशमय्य श्रुत्वा । `शमु अदर्शने` इति चौरादिकाल्ल्यप् `मित्त्वाद्रस्वः` (अष्टाध्यायी ६.४.९२ ) `ल्यपि लघुपूर्वात्` (अष्टाध्यायी ६.४.५६ ) इत्ययादेशः । वधूरमृतैः सुधाभिरिव निर्ववौ निर्ववार । वाते. लिट् । `निर्वाणं निर्वृतिः सुखम्` इति
छन्दः द्रुतविलम्बितम् [१२: नभभर]
छन्दोविश्लेषणम्
१० ११ १२
लु दू तो ऽप्य धि र्त ते
सा वि ति न्धु यो दि तैः
प्र यि नो नि य्य धू र्ब हिः
स्व मृ तै मृ तै रि नि र्व वौ
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.