Loading data... On slow networks this could take a few minutes.
100%

दलितकोमलपाटलकुड्मले
निजवधूश्वसितानुविधायिनि ।
मरुति वाति विलासिभिरुन्मद-
भ्रमदलौ मदलौल्यमुपाददे ॥

मल्लिनाथः दलितेति ॥ पाटलाया अवयवाः पाटलाः । लुक्प्रकरणे `पुष्पमूलेषु बहुलम्` (वा.) इति बहुलग्रहणादलुक् । ते च ते कुङ्मलाश्च, दलिता विभिन्नाः कोमलाः पाटलकुमला येन तस्मिन् निजवधूनां श्वसितं निःश्वासमनुविधत्तेऽनुकरोतीति तथोक्ते । तादृशीत्यर्थः । उन्मदा भ्रमन्तश्चालयो यस्मिंस्तस्मिन् उन्मदभ्रमदलौ मरुति ग्रीष्मानिले वाति वहति सति । वातेर्लटः शत्रादेशः । विलासिभिर्विलसनशीलैः कामिभिः । `वौ कपलसकत्थस्रम्भः` (अष्टाध्यायी ३.२.१४३ ) इति घिनुष्प्रत्ययः । मदेन लौल्यं चापल्यमुपाददे । मत्तैर्जातमित्यर्थः
छन्दः द्रुतविलम्बितम् [१२: नभभर]
छन्दोविश्लेषणम्
१० ११ १२
लि को पा कु ड्म ले
नि धू श्व सि ता नु वि धा यि नि
रु ति वा ति वि ला सि भि रु न्म
भ्र लौ लौ ल्य मु पा दे
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.