Loading data... On slow networks this could take a few minutes.
100%

जलदपङ्क्तिरनर्तयदुन्मदं-
कलविलापि कलापिकदम्बकम् ।
कृतसमार्जनमर्दलमण्डल-
ध्वनिजया निजया स्वनसंपदा ॥

मल्लिनाथः जलदेति ॥ निजया आत्मीयया स्वनसंपदा कृतः समार्जनस्य मार्जनाख्यसंस्कारसहितस्य मर्दलमण्डलस्य ध्वनेर्जयो यया सा तथोक्ता । मार्जनं नाम मर्दलानां ध्धननार्थं भस्ममृदिताम्भःपुष्करलेपनम् । जलदपङ्क्तिरुन्मदमुत्कटमदं कलविलापि मधुरालापि कलापिकदम्बकं मयूरवृन्दमनर्तयत्
छन्दः द्रुतविलम्बितम् [१२: नभभर]
छन्दोविश्लेषणम्
१० ११ १२
ङ्क्ति र्त दु न्म दं
वि ला पि ला पि म्ब कम्
कृ मा र्ज र्द ण्ड
ध्व नि या नि या स्व सं दा
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.