Loading data... On slow networks this could take a few minutes.
100%

अनुययौ विविधोपलकुण्डल-
द्युतिवितानकसंवलितांशुकम् ।
धुततनुर्वलयस्य पयोमुचः
शबलिमा बलिमानमुषो वपुः ॥

मल्लिनाथः अनुययाविति ॥ धृतधनुर्वलयस्य तेन्द्रचापमण्डलस्य पयोमुचो मेघस्य संबन्धी शबलस्य भावः शबलिमा विचित्रता । `पृथ्वादिभ्य इमनिज्वा` (५।१। १२२)। विविधा नानावर्णा उपला मणयो ययोस्तयोः कुण्डलयोर्द्युतिवितानकेन कान्तिपुञ्जेन संवलिता मिलिता अंशवो निजनीलभासो यस्य तत्तथोक्तम् । `शेषाद्विभाषा` (अष्टाध्यायी ५.४.१५४ ) इति कप्प्रत्ययः । बलिमानमुषो बल्यसुराहंकारापहारकस्य हरेर्वपुरनुययावनुचकार । तद्वद्धभावित्यर्थः । उपमालंकारः
छन्दः द्रुतविलम्बितम् [१२: नभभर]
छन्दोविश्लेषणम्
१० ११ १२
नु यौ वि वि धो कु ण्ड
द्यु ति वि ता सं लि तां शु कम्
धु नु र्व स्य यो मु चः
लि मा लि मा मु षो पुः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.