विगतरागगुणोऽपि जनो न
कश्चलति वाति पयोदनभस्वति ।
अभिहितेऽलिभिरेवमिवोच्चकै-
रननृते ननृते नवपल्लवैः ॥

मल्लिनाथः विगतेति ॥ पयोदनभस्वति मेघमारुते वाति वहति सति । वातेर्लटः शत्रादेशः । विगतरागगुणो विरक्तोऽपि को नरो न चलति । सर्वोऽपि चलत्येवेत्यर्थः । एवमलिभिरुच्चकैरुच्चैस्तरामनृतमसत्यं न भवतीत्यननृतं तस्मिन्नननृते सत्यवचनेऽभिहिते सति नवपल्लवैर्ननृत इव नृत्यं कृतमिवेत्युत्प्रेक्षा । नृतेर्भावे लिट्
छन्दः द्रुतविलम्बितम् [१२: नभभर]
छन्दोविश्लेषणम्
१० ११ १२
वि रा गु णो ऽपि नो
श्च ति वा ति यो स्व ति
भि हि ते ऽलि भि रे मि वो च्च कै
नृ ते नृ ते ल्ल वैः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.