Loading data... On slow networks this could take a few minutes.
100%

गजकदम्बकमेचकमुच्चकै-
र्नभसि वीक्ष्य नवाम्बुदमम्बरे ।
अभिससार न वल्लभमङ्गना
न चकमे च कमेकरसं रहः ॥

मल्लिनाथः गजेति ॥ नभसि श्रावणमासे । `नभाः श्रावणिकश्च सः` इत्यमरः । अम्बरे ज्योम्नि गजकदम्बकमिव मेचकं श्यामलम् । `कालश्यामलमेचकाः` इत्यमरः । उच्चैरेवोच्चकैरुन्नतं नवाम्बुदं वीक्ष्य अङ्गना एक एकायनो रसो रागो यस्य तमेकरसम् । तिरस्कृतरसान्तरमित्यर्थः । कं वल्लभं प्रियं रह एकान्ते न चकमे न कामयते स्म तथा नाभिससार च । सर्ववल्लभं सर्वापि तत्तदङ्गना चकमे अभिससार चेति । नवाम्बुदस्योद्दीपकत्वादतिशयोक्तिः । इह कामनापूर्वकत्वादभिसरणस्य तयोरर्थक्रमबलीयस्वन्यायेन यमकवशायातपाठक्रमबाधेन योजना न्याय्यैव
छन्दः द्रुतविलम्बितम् [१२: नभभर]
छन्दोविश्लेषणम्
१० ११ १२
म्ब मे मु च्च कै
र्न सि वी क्ष्य वा म्बु म्ब रे
भि सा ल्ल ङ्ग ना
मे मे सं हः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.