निदधिरे दयितोरसि तत्क्षण-
स्पनवारितुषारभृतः स्तनाः ।
सरसचन्दनरेणुरनुक्षणं
विचकरे च करेण वरोरुभिः ॥

मल्लिनाथः निदधिर इति ॥ वरोरुभिः स्त्रीभिः तत्क्षणस्नपनेन सद्यःसेकेन वारितुषारभृतः । जलशीकरधारिण इत्यर्थः । `तुषारौ हिमशीकरौ` इति शाश्वतः । स्तना दयितोरसि निदधिरे निहिताः । तेषां संतापशान्तये स्नानार्द्राङ्गा एव आलिङ्गन्नित्यर्थः । किंच करेण पाणिना सरस आर्द्रश्चन्दनरेणुः घृष्टचन्दनपङ्कश्चानुक्षणं विच. करे विकीर्णः । किरतेः कर्मणि लिट् । `ऋच्छत्यृताम्` (अष्टाध्यायी ७.४.११ ) इति गुणः । `करेणुकरोरुभिः` इति पाठस्तु `ऊरूत्तरपदादौपम्ये` (अष्टाध्यायी ४.१.६९ ) इत्यूप्रसङ्गाद्धेयः ॥ इति ग्रीष्मवर्णनम्
छन्दः द्रुतविलम्बितम् [१२: नभभर]
छन्दोविश्लेषणम्
१० ११ १२
नि धि रे यि तो सि त्क्ष
स्प वा रि तु षा भृ तः स्त नाः
न्द रे णु नु क्ष णं
वि रे रे रो रु भिः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.