Loading data... On slow networks this could take a few minutes.
100%

अथ रिरंसुममुं युगपद्गिरौ
कृतयथास्वतरुप्रसवश्रिया ।
ऋतुगणेन निषेवितुमादधे
भुवि पदं विपदन्तकृतं सतां ॥

मल्लिनाथः अथेति ॥ अथ सेनानिवेशानन्तरं गिरौ रैवतके रिरंसुं रन्तुमिच्छम् । रमेः सन्नन्तादुप्रत्ययः । एतेन ऋतुवर्णनप्रवृत्तेः प्रभुचित्तवृत्तिज्ञानपूर्वकत्वमुक्तम् । सतां साधूनां विपदामन्तं करोतीति विपदन्तकृत् । विप् । तं विपदन्तकृतम् । सेव्यमिति भावः । अमुं हरिं निषेवितुं स्वतरून स्वस्वनियतवृक्षाननतिक्रम्य यथास्वतरु । यथार्थेऽव्ययीभावः । यथास्वतरुस्थिता प्रसवश्रीः पुष्पफलसंपत्तिः यथास्वतरुप्रसवश्रीः । `प्रसवस्तु फले पुष्पे` इत्यमरः । शाकपार्थिवादिषु द्रष्टव्यः । सा कृता येन तेन कृतयथास्वतरुप्रसवश्रिया। यथास्वतस्कृतप्रसवश्रियेत्यर्थः । ऋतुगणेन युगपद्भुवि पदमादधे आहितम् । युगपद्दतुगणः प्रादुरभूदित्यर्थः । नह्यवसरं सेवकाः क्षिपन्तीति भावः । अत्र सर्गे सर्वत्र यमकशब्दालंकारः । तल्लक्षणं तूक्तं चतुर्थे । अर्थालंकारस्तु यथासंभवमूह्यः । अस्मिन्सर्गे द्रुतविलम्बितं वृत्तम् । द्रुतविलम्बितमाह नभौ भरौ` इति लक्षणात्
छन्दः द्रुतविलम्बितम् [१२: नभभर]
छन्दोविश्लेषणम्
१० ११ १२
रि रं सु मुं यु द्गि रौ
कृ था स्व रु प्र श्रि या
तु णे नि षे वि तु मा धे
भु वि दं वि न्त कृ तं तां
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.