अरुणिताखिशैलवना मुहु-
र्विदधती पथिकान्परितापिनः ।
विकचकिंशुकसंहतिरुच्चकै-
रुदवहद्दवहव्यवहश्रियम् ॥

मल्लिनाथः अरुणितेति ॥ अरुणितान्यरुणीकृतान्यखिलानि शैलवनानि यया सा मुहुः पथिकानध्वगान् , विरहिणश्च परितापिनः संतापवतो विदधती उच्चैरेवोच्चकैरु. न्नता । `अव्ययसर्वनाम्नामकच्प्राक्टेः` (अष्टाध्यायी ५.३.७१ ) इत्यकच् प्रत्ययः । विकचा विकसिता या किंशुकसंहतिः पलाशकुसुमराशिः सा दवहव्यवहश्रियं दवाग्निशोभामुदवहत् । निदर्शनालंकारः ॥ इति वसन्तवर्णनम्
छन्दः द्रुतविलम्बितम् [१२: नभभर]
छन्दोविश्लेषणम्
१० ११ १२
रु णि ता खि शै ना मु हु
र्वि ती थि का न्प रि ता पि नः
वि किं शु सं ति रु च्च कै
रु द्द व्य श्रि यम्
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.