अथ षष्ठोऽध्यायः
६.१
पूर्वरङ्गविधिं श्रुत्वापुनराहुर्महत्तमाः ।
भरतं मुनयः सर्वे प्रश्नान्पञ्चाभिधत्स्व नः ॥
भरतं मुनयः सर्वे प्रश्नान्पञ्चाभिधत्स्व नः ॥
Summary
AI
Having heard the rules of the Pūrvaraṅga, all the great sages again said to Bharata: "State to us the five questions" (or "Answer our five questions").
६.२
ये रसा इति पठ्यन्ते नाट्ये नाट्यविचक्षणैः ।
रसत्वं केन वै तेषामेतदाख्यातुमर्हसि ॥
रसत्वं केन वै तेषामेतदाख्यातुमर्हसि ॥
Summary
AI
You ought to explain this: by what means do those which are called 'Rasas' by experts in drama attain the state of being a Rasa?
६.३
भावाश्चैव कथं प्रोक्ताः किं वा ते भावयन्त्यपि ।
संग्रहं कारिकां चैव निरुक्तं चैव तत्वतः ॥
संग्रहं कारिकां चैव निरुक्तं चैव तत्वतः ॥
Summary
AI
And how are the Bhāvas explained? What do they bring forth? (Explain) the summary (Saṅgraha), the memorial verse (Kārikā), and the etymological explanation (Nirukta) in their true nature.
६.४
तेषां तु वचनं श्रुत्वा मुनीनां भरतो मुनिः ।
प्रत्युवाच पुनर्वाक्यं रसभावविकल्पनम् ॥
प्रत्युवाच पुनर्वाक्यं रसभावविकल्पनम् ॥
Summary
AI
Having heard the words of those sages, the sage Bharata then replied again with a speech that explains Rasa and Bhāva.
६.५
अहं वः कथयिष्यामि निखिलेन तपोधनाः ।
संग्रहं कारिकां चैव निरुक्तं च यथाक्रमम् ॥
संग्रहं कारिकां चैव निरुक्तं च यथाक्रमम् ॥
Summary
AI
O ascetics, I will tell you completely and in order the summary (Saṅgraha), the memorial verse (Kārikā), and the etymological explanation (Nirukta).
६.६
न शक्यमस्य नाट्यस्य गन्तुमन्तं कथञ्चन ।
कस्माद्बहुत्वाज्ज्ञानानां शिल्पानां वाप्यनन्ततः ॥
कस्माद्बहुत्वाज्ज्ञानानां शिल्पानां वाप्यनन्ततः ॥
Summary
AI
It is not possible in any way to reach the end of this drama (Nāṭya). Why? Because of the multiplicity of knowledges and arts, and also because of their endlessness.
६.७
एकस्यापि न वै शक्यस्त्वन्तो ज्ञानार्णवस्य हि ।
गन्तुं किं पुनरन्येषां ज्ञानानामर्थतत्त्वतः ॥
गन्तुं किं पुनरन्येषां ज्ञानानामर्थतत्त्वतः ॥
Summary
AI
Indeed, it is not possible to reach the end of even one ocean of knowledge. What then to say of reaching the end of other knowledges in terms of the true nature of their meaning?
६.८
किन्त्वल्पसूत्रग्रन्थार्थमनुमानप्रसाधकम् ।
नाट्यस्यास्य प्रवक्ष्यामि रसभावादिसङ्ग्रहम् ॥
नाट्यस्यास्य प्रवक्ष्यामि रसभावादिसङ्ग्रहम् ॥
Summary
AI
But I will declare the compendium of Rasa, Bhāva, and so on, for this Nāṭya, which has the meaning of a text with few aphorisms and establishes its points through inference.
६.९
विस्तरेणोपदिष्टानामर्थानां सूत्रभाष्ययोः ।
निबन्धो यो समासेन सङ्ग्रहं तं विदुर्बुधाः ॥
निबन्धो यो समासेन सङ्ग्रहं तं विदुर्बुधाः ॥
Summary
AI
The wise know that compilation which briefly presents the meanings taught in detail in the Sūtras and Bhāṣyas as a 'Saṅgraha' (compendium).
६.१०
रसा भावा ह्यभिनयाः धर्मी वृत्तिप्रवृत्तयः ।
सिद्धिः स्वरास्तथातोद्यं गानं रङ्गश्च सङ्ग्रहः ॥
सिद्धिः स्वरास्तथातोद्यं गानं रङ्गश्च सङ्ग्रहः ॥
Summary
AI
The Saṅgraha (compendium) consists of: Rasas, Bhāvas, Abhinayas, Dharmī, Vṛttis and Pravṛttis, Siddhi, Svaras, as well as Ātodya, Gāna, and Raṅga.
६.११
अल्पाभिधानेनार्थो यः समासेनोच्यते बुधैः ।
सूत्रतः साऽनुमतव्या कारिकार्थप्रदर्शिनी ॥
सूत्रतः साऽनुमतव्या कारिकार्थप्रदर्शिनी ॥
Summary
AI
That which is stated concisely by the wise with a brief expression in the form of a sutra should be understood as a Kārikā, which reveals the meaning.
६.१२
नानानामाश्रयोत्पन्नं निघण्टुनिगमान्वितम् ।
धात्वर्थहेतुसंयुक्तं नानासिद्धान्तसाधितम् ॥
धात्वर्थहेतुसंयुक्तं नानासिद्धान्तसाधितम् ॥
Summary
AI
(Nirukta is) that which arises from the basis of various nouns, is connected with glossaries (Nighaṇṭu) and Vedic texts (Nigama), is joined with the reasons for the meanings of verbal roots, and is established by various established principles.
६.१३
स्थापितोऽर्थो भवेद्यत्र समासेनार्थासूचकः ।
धात्वर्थवचनेनेह निरुक्तं तत्प्रचक्षते ॥
धात्वर्थवचनेनेह निरुक्तं तत्प्रचक्षते ॥
Summary
AI
Where a meaning, indicative of its own sense, is concisely established by stating the meaning of the verbal root, that is called 'Nirukta' here.
६.१४
सङ्ग्रहो यो मया प्रोक्तः समासेन द्विजोत्तमाः ।
विस्तरं तस्य वक्ष्यामि सनिरुक्तं सकारिकम् ॥
विस्तरं तस्य वक्ष्यामि सनिरुक्तं सकारिकम् ॥
Summary
AI
O best of the twice-born, I will now speak in detail about that compendium which was briefly mentioned by me, along with its Nirukta and Kārikā.
६.१५
शृङ्गारहास्यकरुणा रौद्रवीरभयानकाः ।
बीभत्साद्भुतसंज्ञौ चेत्यष्टौ नाट्ये रसाः स्मृताः ॥
बीभत्साद्भुतसंज्ञौ चेत्यष्टौ नाट्ये रसाः स्मृताः ॥
Summary
AI
The Erotic, Comic, Pathetic, Furious, Heroic, Terrible, and those named Odious and Marvellous—these eight Rasas are traditionally known in drama.
६.१६
एते ह्यष्टौ रसाः प्रोक्ता द्रुहिनेन महात्मना ।
पुनश्च भावान्वक्ष्यामि स्थायिसञ्चारिसत्त्वजान् ॥
पुनश्च भावान्वक्ष्यामि स्थायिसञ्चारिसत्त्वजान् ॥
Summary
AI
These eight Rasas were indeed spoken of by the great-souled Brahmā. And now I will speak of the Bhāvas, which are categorized as permanent (Sthāyi), transitory (Sañcāri), and temperamental (Sāttvika).
६.१७
रतिहासश्च शोकश्च क्रोधोत्साहौ भयं तथा ।
जुगुप्सा विस्मयश्चेति स्थायिभावाः प्रकीर्तिताः ॥
जुगुप्सा विस्मयश्चेति स्थायिभावाः प्रकीर्तिताः ॥
Summary
AI
Love, Mirth, Sorrow, Anger and Energy, Fear, Disgust, and Astonishment—these are declared as the permanent emotional states (Sthāyibhāvas).
६.१८
निर्वेदग्लानिशङ्काख्यास्तथासूया मदः श्रमः ।
आलस्यं चैव दैन्यं च चिन्तामोहः स्मृतिर्धृतिः ॥
आलस्यं चैव दैन्यं च चिन्तामोहः स्मृतिर्धृतिः ॥
Summary
AI
Despondency, Weariness, Apprehension, as well as Envy, Intoxication, Fatigue, Indolence, Depression, Anxiety, Distraction, Recollection, and Contentment (are transitory states).
६.१९
व्रीडा चपलता हर्ष आवेगो जडता तथा ।
गर्वो विषाद औत्सुक्यं निद्रापस्मार एव च ॥
गर्वो विषाद औत्सुक्यं निद्रापस्मार एव च ॥
Summary
AI
Shame, Inconstancy, Joy, Agitation, Stupor, as well as Arrogance, Despair, Impatience, Sleep, and Epilepsy (are also transitory states).
६.२०
सुप्तं विबोधोऽमर्षश्चाप्यवहित्थमथोग्रता ।
मतिर्व्याधिस्तथोन्मादस्तथा मरणमेव च ॥
मतिर्व्याधिस्तथोन्मादस्तथा मरणमेव च ॥
Summary
AI
This verse continues the list of transitory states (vyabhichari bhavas): sleeping, awakening, indignation, dissimulation, cruelty, assurance, sickness, insanity, and also death.
६.२१
त्रासश्चैव वितर्कश्च विज्ञेया व्यभिचारिणः ।
त्रयस्त्रिंशदमी भावाः समाख्यातास्तु नामतः ॥
त्रयस्त्रिंशदमी भावाः समाख्यातास्तु नामतः ॥
Summary
AI
Fright and deliberation are also to be known as transitory states. These thirty-three states have thus been enumerated by name.
६.२२
स्तम्भः स्वेदोऽथ रोमाञ्चः स्वरभेदोऽथ वेपथुः ।
वैवर्ण्यमश्रु प्रलय इत्यष्टौ सात्विकाः स्मृताः ॥
वैवर्ण्यमश्रु प्रलय इत्यष्टौ सात्विकाः स्मृताः ॥
Summary
AI
Paralysis, perspiration, horripilation, change of voice, trembling, change of color, tears, and fainting—these eight are known as the Sattvika bhavas (involuntary states).
६.२३
आङ्गिकौ वाचिकश्चैव ह्याहार्यः सात्विकस्तथा ।
चत्वारोऽभिनया ह्येते विज्ञेया नाट्यसंश्रयाः ॥
चत्वारोऽभिनया ह्येते विज्ञेया नाट्यसंश्रयाः ॥
Summary
AI
Gestural (Angika), vocal (Vachika), costumic (Aharya), and emotional (Sattvika) are the four types of acting (Abhinaya). These are to be known as the foundations of drama (Natya).
६.२४
लोकधर्मी नाट्यधर्मी धर्मीति द्विविधः स्मृतः ।
भारती सात्वती चैव कैशिक्यारभटी तथा ॥
भारती सात्वती चैव कैशिक्यारभटी तथा ॥
Summary
AI
The dramatic practice (Dharmi) is said to be of two kinds: realistic (Lokadharmi) and conventional (Natyadharmi). Similarly, Bharati, Sattvati, Kaisiki, and Arabhati are the styles (Vritti).
६.२५
चतस्रो वृत्तयो ह्येता यासु नाट्यं प्रतिष्ठितम् ।
आवन्ती दाक्षिणात्या च तथा चैवोढ्रमागधी ॥
आवन्ती दाक्षिणात्या च तथा चैवोढ्रमागधी ॥
Summary
AI
These are indeed the four styles (Vrittis) in which drama is established. Similarly, Avanti, Dakshinatya, and Odhra-Magadhi (are local usages).
६.२६
पाञ्चालमध्यमा चेति विज्ञेयास्तु प्रवृत्तयः ।
दैविकी मानुषी चैव सिद्धिः स्याद्द्विविधैव तु ॥
दैविकी मानुषी चैव सिद्धिः स्याद्द्विविधैव तु ॥
Summary
AI
And Panchala-Madhyama; these are to be known as the local usages (Pravrittis). Success (Siddhi), however, is of two kinds: divine and human.
६.२७
शारीराश्चैव वैणाश्च सप्त षड्जादयः स्वराः ।
[निषादर्षभगान्धारमध्यपञ्चमधैवताः] ।
ततं चैवावनद्धं च घनं सुषिरमेव च ॥
[निषादर्षभगान्धारमध्यपञ्चमधैवताः] ।
ततं चैवावनद्धं च घनं सुषिरमेव च ॥
Summary
AI
The seven notes, beginning with Shadja, are of two kinds: from the body (vocal) and from the Vina (instrumental). Stringed (Tata), covered (Avanaddha), solid (Ghana), and hollow (Sushira) are the types of instruments.
६.२८
चतुर्विधं च विज्ञेयमातोद्यं लक्षणान्वितम् ।
ततं तन्त्रीगतं ज्ञेयमवनद्धं तु पौष्करम् ॥
ततं तन्त्रीगतं ज्ञेयमवनद्धं तु पौष्करम् ॥
Summary
AI
Instrumental music (Atodya), with its characteristics, should be known as fourfold. The stringed (Tata) is known as that which is played on strings, while the covered (Avanaddha) is percussion.
६.२९
घनस्तु तालो विज्ञेयः सुषिरो वंश एव च ।
प्रवेशाक्षेपनिष्क्रामप्रासादिकमथान्तरम् ॥
प्रवेशाक्षेपनिष्क्रामप्रासादिकमथान्तरम् ॥
Summary
AI
The solid (Ghana) instrument is to be known as cymbals (Tala), and the hollow (Sushira) is the flute (Vamsha). Furthermore, there is the introductory, diverting, concluding, calming, and intermediate song.
६.३०
गानं पञ्चविधं ज्ञेयं ध्रुवायोगसमन्वितम् ।
चतुरस्रो विकृष्टश्च रङ्गस्त्र्यश्रश्च कीर्तितः ॥
चतुरस्रो विकृष्टश्च रङ्गस्त्र्यश्रश्च कीर्तितः ॥
Summary
AI
Song (Gana), connected with the Dhruva songs, is to be known as fivefold. The stage (Ranga) is described as being square, rectangular, and triangular.
६.३१
एवमेषोऽल्पसूत्रार्थो निर्दिष्टो नाट्यसंग्रहः ।
अतः परं प्रवक्ष्यामि सूत्रग्रन्थविकल्पनम् ॥
अतः परं प्रवक्ष्यामि सूत्रग्रन्थविकल्पनम् ॥
Summary
AI
Thus, this summary of drama (Natyasangraha), with its concise aphoristic meaning, has been stated. Hereafter, I shall explain the detailed elaboration of the aphoristic text.
तत्र रसानेव तावदादावभिव्याख्यास्यामः । न हि रसादृते कश्चिदर्थः प्रवर्तते । तत्र विभावानुभावव्यभिचारिसंयोगाद्रसनिष्पत्तिः । को दृष्टान्तः । अत्राह यथा हि नानाव्यञ्जनौषधिद्रव्यसंयोगाद्रसनिष्पत्तिः तथा नानाभावोपगमाद्रसनिष्पत्तिः । यथा हि गुडादिभिर्द्रव्यैर्व्यञ्जनैरौषधिभिश्च षाडवादयो रसा निर्वर्त्यन्ते तथा नानाभावोपगता अपि स्थायिनो भावा रसत्वमाप्नुवन्तीति । अत्राह रस इति कः पदार्थः । उच्यते आस्वाद्यत्वात् । कथमास्वाद्यते रसः । यथा हि नानाव्यञ्जनसंस्कृतमन्नं भुञ्जान रसानास्वादयन्ति सुमनसः पुरुष हर्षादींश्चाधिगच्छन्ति तथा नानाभावाभिनयव्यञ्जितान्वागङ्गसत्तोपेतान्स्थायिभावानास्वादयन्ति सुमनसः प्रेक्षकाः हर्षादींश्चाधिगच्छन्ति । तस्मान्नाट्यरसा इत्यभिव्याख्याताः ।
६.३२
अत्रानुवंश्यौ श्लोकौ भवतः यथा बहुद्रव्ययुतैर्व्यञ्जनैर्बहुभिर्युतम् ।आस्वादयन्ति भुञ्जाना भक्तं भक्तविदो जनाः ॥
Summary
AI
On this topic, there are two traditional verses. Just as people who know food, while eating, savor cooked rice accompanied by many side dishes made with various ingredients.
६.३३
भावाभिनयसंबद्धान्स्थायिभावांस्तथा बुधाः ।
आस्वादयन्ति मनसा तस्मान्नाट्यरसाः स्मृताः ॥
आस्वादयन्ति मनसा तस्मान्नाट्यरसाः स्मृताः ॥
Summary
AI
Similarly, the wise savor with their minds the permanent states (Sthayibhavas) connected with various emotional states (Bhavas) and acting (Abhinaya). Therefore, these are known as the dramatic sentiments (Natyarasas).
अत्राह किं रसेभ्यो भावानामभिनिर्वृत्तिरुताहो भावेभ्यो रसानामिति । केषाञ्चिन्मतं परस्परसम्बन्धादेषामभिनिर्वृत्तिरिति । तन्न । कस्मात् । दृश्यते हि भावेभ्यो रसानामभिनिर्वृत्तिर्न तु रसेभ्यो भावानामभिनिर्वृत्तिरिति ।
६.३४
भवन्ति चात्र श्लोकाः नानाभिनयसम्बद्धान्भावयन्ति रसनिमान् । यस्मात्तस्मादमी भावा विज्ञेया नाट्ययोक्तृभिः ॥
Summary
AI
And here are some verses on this topic. Since they bring forth these sentiments (Rasas) connected with various forms of acting, these emotional states (Bhavas) should be understood by the producers of drama.
६.३५
नानाद्रव्यैबहुविधैर्व्यञ्जनं भाव्यते यथा ।
एवं भावा भावयन्ति रसानभिनयैः सह ॥
एवं भावा भावयन्ति रसानभिनयैः सह ॥
Summary
AI
Just as a side dish is brought to flavor by various and manifold ingredients, so too do the emotional states (Bhavas), along with acting (Abhinaya), bring forth the sentiments (Rasas).
६.३६
न भावहीनोऽस्ति रसो न भावो रसवर्जितः ।
परस्परकृता सिद्धिस्तयोरभिनये भवेत् ॥
परस्परकृता सिद्धिस्तयोरभिनये भवेत् ॥
Summary
AI
There is no sentiment (Rasa) devoid of emotional state (Bhava), nor any Bhava devoid of Rasa. Their accomplishment in acting comes from their mutual relationship.
६.३७
व्यञ्जनौषधिसंयोगो यथान्नं स्वादुतां नयेत् ।
एवं भावा रसाश्चैव भावयन्ति परस्परम् ॥
एवं भावा रसाश्चैव भावयन्ति परस्परम् ॥
Summary
AI
Just as a combination of spices and herbs brings flavor to food, so too do the emotional states (Bhavas) and sentiments (Rasas) bring each other forth.
६.३८
यथा बीजाद्भवेद्वृक्षो वृक्षात्पुष्पं फलं यथा ।
तथा मूलं रसाः सर्वे तेभ्यो भावा व्यवस्थिताः ॥
तथा मूलं रसाः सर्वे तेभ्यो भावा व्यवस्थिताः ॥
Summary
AI
Just as a tree comes from a seed, and from the tree come flowers and fruit, so too are all the sentiments (Rasas) the root, and from them, the emotional states (Bhavas) are established.
तदेषं रसानामुत्पत्तिवर्णदैवतनिदर्शनान्यभिव्याख्यास्यामः । तेषामुत्पत्तिहेतवश्चत्वारो रसाः । तद्यथा शृङ्गारो रौद्रौ वीरो बीभत्स इति । अत्र
६.३९
शृङ्गाराद्धि भवेद्धास्यो रौद्राच्च करुणो रसः ।
वीराच्चैवाद्भुतोत्पत्तिर्बीभत्साच्च भयानकः ॥
वीराच्चैवाद्भुतोत्पत्तिर्बीभत्साच्च भयानकः ॥
Summary
AI
From the Erotic (Shringara) arises the Comic (Hasya), and from the Furious (Raudra) arises the Pathetic (Karuna) sentiment. From the Heroic (Vira) comes the Marvellous (Adbhuta), and from the Odious (Bibhatsa) comes the Terrible (Bhayanaka).
६.४०
शृङ्गारानुकृतिर्या तु स हास्यस्तु प्रकीर्तितः ।
रौद्रस्यैव च यत्कर्म स ज्ञेयः करुणो रसः ॥
रौद्रस्यैव च यत्कर्म स ज्ञेयः करुणो रसः ॥
Summary
AI
That which is an imitation of the Erotic (Shringara) is called the Comic (Hasya). And the consequence of the Furious (Raudra) is to be known as the Pathetic (Karuna) sentiment.
६.४१
वीरस्यापि च यत्कर्म सोऽद्भुतः परिकीर्तितः ।
बीभत्सदर्शनं यच्च ज्ञेयः स तु भयानकः ॥
बीभत्सदर्शनं यच्च ज्ञेयः स तु भयानकः ॥
Summary
AI
And the consequence of the Heroic (Vira) is called the Marvellous (Adbhuta). And that which is the sight of the Odious (Bibhatsa) is to be known as the Terrible (Bhayanaka).
६.४२
अथ वर्णाः श्यामो भवति शृङ्गारः सितो हास्यः प्रकीर्तितः ।
कपोतः करुणश्चैव रक्तो रौद्रः प्रकीर्तितः ॥
कपोतः करुणश्चैव रक्तो रौद्रः प्रकीर्तितः ॥
Summary
AI
Now, the colors. The Erotic (Shringara) is dark (shyama). The Comic (Hasya) is said to be white. The Pathetic (Karuna) is dove-colored. The Furious (Raudra) is said to be red.
६.४३
गौरो वीरस्तु विज्ञेयः कृष्णश्चैव भयानकः ।
नीलवर्णस्तु बीभत्सः पीतश्चैवाद्भुतः स्मृतः ॥
नीलवर्णस्तु बीभत्सः पीतश्चैवाद्भुतः स्मृतः ॥
Summary
AI
The Heroic (Vira) should be known as golden-colored. The Terrible (Bhayanaka) is black. The Odious (Bibhatsa) is blue-colored. And the Marvellous (Adbhuta) is known as yellow.
अथ दैवतानि
६.४४
शृङ्गारो विष्णुदेवत्यो हास्यः प्रमथदैवतः ।
रौद्रो रुद्राधिदैवत्यः करुणो यमदैवतः ॥
रौद्रो रुद्राधिदैवत्यः करुणो यमदैवतः ॥
Summary
AI
Now, the deities. The Erotic (Shringara) has Vishnu as its deity. The Comic (Hasya) has the Pramathas as its deities. The Furious (Raudra) has Rudra as its presiding deity. The Pathetic (Karuna) has Yama as its deity.
६.४५
बीभत्सस्य महाकालः कालदेवो भयानकः ।
वीरो महेन्द्रदेवः स्यादद्भुतो ब्रह्मदैवतः ॥
वीरो महेन्द्रदेवः स्यादद्भुतो ब्रह्मदैवतः ॥
Summary
AI
The presiding deity of the Bibhatsa (disgusting) rasa is Mahakala; of the Bhayanaka (terrible) rasa, Kaladeva; of the Vira (heroic) rasa, Mahendra; and the Adbhuta (marvelous) rasa has Brahma as its deity.
॥ इति षष्ठोऽध्याय: ॥
Other texts to read
About
Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.