राजा—(ततः प्रविशत्याकाशयानेन रथाधिरूढो राजा मातलिश्च)
मातलिः—मातले अनुष्ठितनिदेशोऽपि मघवतः सत्क्रियाविशेषादनुपयुक्तमिवात्मानं समर्थये ।
(सस्मितम्)आयुष्मन्नुभयमप्यपरितोषं समर्थये ।
७.१
प्रथमोपकृतं मरुत्वतः
प्रतिपत्त्या लघु मन्यते भवान् ।
गणयत्यवदानविस्मितो
भवतः सोऽपि न सत्क्रियागुणान् ॥
प्रतिपत्त्या लघु मन्यते भवान् ।
गणयत्यवदानविस्मितो
भवतः सोऽपि न सत्क्रियागुणान् ॥
Summary
AI
Because of the grand reception, you consider the initial favor done to Indra as small. He, astonished by your heroic deed, also does not count the merits of the honors he bestowed upon you.
मातले मा मैवम् । स खलु मनोरथानामप्यभूमिर्विसर्जनावसरसत्कारः । मम हि दिवौकसां समक्षमर्धासनोपवेशितस्य ।
७.२
अन्तर्गतप्रार्थनमन्तिकस्थं
जयन्तमुद्वीक्ष्य हृतस्मितेन ।
आमृष्टवक्षोहरिचन्दनाङ्का
मन्दारमाला हरिणा पिनद्धा ॥
जयन्तमुद्वीक्ष्य हृतस्मितेन ।
आमृष्टवक्षोहरिचन्दनाङ्का
मन्दारमाला हरिणा पिनद्धा ॥
Summary
AI
Seeing his son Jayanta standing nearby with a wish in his heart, Indra, with a suppressed smile, placed on you a Mandara garland, which was marked by the Harichandana paste from his own chest as he took it off.
किमिव नामायुष्मानमरेश्वरान्नार्हति । पश्य ।
७.३
सुखपरस्य हरेरुभयैः कृतं
त्रिदिवमुद्धृतदानवकण्टकम् ।
तव शरैरधुना नतपर्वभिः
पुरुषकेसरिणश्च पुरा नखैः ॥
त्रिदिवमुद्धृतदानवकण्टकम् ।
तव शरैरधुना नतपर्वभिः
पुरुषकेसरिणश्च पुरा नखैः ॥
Summary
AI
Heaven, belonging to Indra who is devoted to pleasure, has been freed from the thorns of demons by both: now by your arrows with their bent nodes, and formerly by the claws of the Man-lion (Narasimha).
अत्र खलु शतक्रतोरेव महिमा स्तुत्यः ।
७.४
सिध्यन्ति कर्मसु महत्वपि यन्नियोज्याः
संभावनागुणमवेहि तमीश्वराणाम् ।
किं वाभविष्यदरुणस्तमसां विभेत्ता
तं चेत्सहस्रकिरणो धुरि नाकरिष्यत् ॥
संभावनागुणमवेहि तमीश्वराणाम् ।
किं वाभविष्यदरुणस्तमसां विभेत्ता
तं चेत्सहस्रकिरणो धुरि नाकरिष्यत् ॥
Summary
AI
Know that the success of subordinates even in great tasks is due to the high esteem their masters hold them in. How would Aruna have become the dispeller of darkness if the thousand-rayed sun had not placed him at the forefront?
सदृशं तव एतत् । (स्तोकमन्तरमतीत्य)आयुष्मन्नितः पश्य नाकपृष्ठप्रतिष्ठितस्य सौभाग्यमात्मयशसः ।
७.५
विच्छित्तिशेषैः सुरसुन्दरीणां
वर्णैरमी कल्पलतांशुकेषु ।
विचिन्त्य गीतक्षममर्थजातं
दिवौकसस्त्वच्चरितं लिखन्ति ॥
वर्णैरमी कल्पलतांशुकेषु ।
विचिन्त्य गीतक्षममर्थजातं
दिवौकसस्त्वच्चरितं लिखन्ति ॥
Summary
AI
These denizens of heaven, having composed subject matter fit for song, are writing your story on silken cloths from celestial trees, using paints made from the leftover cosmetics of celestial beauties.
मातले असुरसंप्रहारोत्सुकेन पूर्वेद्युर्दिवमधिरोहता मया न लक्षितः स्वर्गमार्गः । कतमस्मिन्मरुतां पथि वर्तामहे ।
मातलि
७.६
त्रिस्रोतसं वहति यो गगनप्रतिष्ठाम्
ज्योतींषि वर्तयति च प्रविभक्तरश्मिः ।
तस्य द्वितीयहरिविक्रमनिस्तमस्कम्
वायोरिमं परिवहस्य वदन्ति मार्गम् ॥
ज्योतींषि वर्तयति च प्रविभक्तरश्मिः ।
तस्य द्वितीयहरिविक्रमनिस्तमस्कम्
वायोरिमं परिवहस्य वदन्ति मार्गम् ॥
Summary
AI
They call this the path of the Parivaha wind, which carries the celestial Ganga, keeps the stars in motion, and was cleared of darkness by the second stride of Vishnu.
मातलि—मातले अतः खलु सबाह्यान्तःकरणो ममान्तरात्मा प्रसीदति । (रथाङ्गमवलोक्य) मेघपदवीमवतीर्णौ स्वः ।
राजा—कथमवगम्यते ।
अयमरविवरेभ्यश्चातकैर्निष्पतद्भिर्हरिभिरचिरभासां तेजसा चानुलिप्तैः ।
७.७
गतमुपरि घनानां वारिगर्भोदराणाम् ॥
Summary
AI
(The chariot) has gone above the clouds whose bellies are pregnant with water.
राजा—क्षणादायुष्मान्स्वाधिकारभूमौ वर्तिष्यते ।
(अधोऽवलोक्य) मातले वेगावतरणादाश्चर्यदर्शनः संलक्ष्यते मनुष्यलोकः । तथा हि ।
७.८
शैलानामवरोहतीव शिखरादुन्मज्जतां मेदिनी
पर्णाभ्यन्तरलीनतां विजहति स्कन्धोदयात्पादपाः ।
संतानैस्तनुभावनष्टसलिला व्यक्तिं भजन्त्यापगाः
केनाप्युत्क्षिपतेव पष्य भुवनं मत्पार्श्वमानीयते ॥
पर्णाभ्यन्तरलीनतां विजहति स्कन्धोदयात्पादपाः ।
संतानैस्तनुभावनष्टसलिला व्यक्तिं भजन्त्यापगाः
केनाप्युत्क्षिपतेव पष्य भुवनं मत्पार्श्वमानीयते ॥
Summary
AI
Look! The earth seems to descend from the peaks of emerging mountains. Trees, as their trunks appear, lose their state of being hidden among leaves. Rivers, whose waters were invisible due to their thinness, now become visible by their expanse. It is as if the world is being thrown upwards and brought near me.
राजा—साधु दृष्टम् । (सबहुमानमवलोक्य)अहो उदाररमणीया पृथिवी ।
मातलि—मातले कतमोऽयं पूर्वापरसमुद्रावगाढः कनकरसनिस्यन्दी सांध्य मेघपरिघः सानुमानालोक्यते ।
आयुष्मन्नेष खलु हेमकूटो नाम किं पुरुषपर्वतस्तपःसंसिद्धिक्षेत्रम् । पश्य ।
७.९
स्वायंभुवान्मरीचेर्यः प्रबभूव प्रजापतिः ।
सुरासुरगुरुः सोऽत्र सपत्नीकस्तपस्यति ॥
सुरासुरगुरुः सोऽत्र सपत्नीकस्तपस्यति ॥
Summary
AI
The Prajapati (Kashyapa), who was born from Marichi, the son of Brahma, and who is the father of both gods and demons, performs penance here with his wife.
मातलि—तेन ह्यनतिक्रमणीयानि श्रेयांसि । प्रदक्षिणीकृत्य भगवन्तं गन्तुमिच्छामि ।
राजा—प्रथमः कल्पः । (नाट्येनावतीर्णौ)
(सविस्मयम्)
७.१०
उपोढशब्दा न रथाङ्गनेमयः
प्रवर्तमानं न च दृश्यते रजः ।
अभूतलस्पर्शनतयानिरुद्धत-
स्तवावतीर्णोऽपि रथो न लक्ष्यते ॥
प्रवर्तमानं न च दृश्यते रजः ।
अभूतलस्पर्शनतयानिरुद्धत-
स्तवावतीर्णोऽपि रथो न लक्ष्यते ॥
Summary
AI
The rims of the chariot wheels make no sound, and no rising dust is seen. Because it does not touch the ground and is thus unobstructed, your chariot, even though it has landed, is not perceived.
राजा—एतावानेव शतक्रतोरायुष्मतश्च विशेषः ।
मातलिः—मातले कतमस्मिन्प्रदेशे मारीचाश्रमः ।
(हस्तेन दर्शयन्)
७.११
वल्मीकार्धनिमग्नमूर्तिरुरसा संदष्टसर्पत्वचा
कण्ठे जीर्णलताप्रतानवलयेनात्यर्थसंपीडितः ।
अंसव्यापि शकुन्तनीडनिचितं बिभ्रज्जटामण्डलम्
यत्र स्थाणुरिवाचलो मुनिरसावभ्यर्कबिम्बं स्थितः ॥
कण्ठे जीर्णलताप्रतानवलयेनात्यर्थसंपीडितः ।
अंसव्यापि शकुन्तनीडनिचितं बिभ्रज्जटामण्डलम्
यत्र स्थाणुरिवाचलो मुनिरसावभ्यर्कबिम्बं स्थितः ॥
Summary
AI
Here stands this sage, immovable like a tree stump, facing the sun. His body is half-buried in an anthill, a snake's slough clings to his chest, his neck is tightly constricted by a withered creeper, and he bears a mass of matted hair covering his shoulders, filled with birds' nests.
मातलिः—नमस्ते कष्टतपसे ।
राजा—(संयतप्रग्रहं रथं कृत्वा)एतावदितिपरिवर्धितमन्दारवृक्षं प्रजापतेराश्रमं प्रविष्टौ स्वः ।
मातलिः—स्वर्गादधिकतरं निर्वृतिस्थानममृतह्रदमिवावगाढोऽस्मि ।
राजा—(रथं स्थापयित्वा)अवतरत्वायुष्मान् ।
मातलिः—(अवतीर्य) मातले भवान्कथमिदानीम् ।
संयन्त्रितो मया रथः । वयमप्यवतरामः ।
राजा—(तथा कृत्वा)इत आयुष्मन् । (परिक्रम्य) दृश्यन्तामत्रभवताम् ऋषीणां तपोवनभूमयः ।
ननु विस्मयादवलोकयामि ।
७.१२
प्राणानामनिलेन वृत्तिरुचिता सत्कल्पवृक्षे वने
तोये काञ्चनपद्मरेणुकपिशे धर्माभिषेकक्रिया ।
ध्यानं रत्नशिलातलेषु विबुधस्त्रीसंनिधौ संयमो
यत्काङ्क्षन्ति तपोभिरन्यमुनयस्तस्मिंस्तपस्यन्त्यमी ॥
तोये काञ्चनपद्मरेणुकपिशे धर्माभिषेकक्रिया ।
ध्यानं रत्नशिलातलेषु विबुधस्त्रीसंनिधौ संयमो
यत्काङ्क्षन्ति तपोभिरन्यमुनयस्तस्मिंस्तपस्यन्त्यमी ॥
Summary
AI
Here, they subsist on air in a forest of wish-fulfilling trees, perform ablutions in water tawny with golden lotus pollen, meditate on jeweled slabs, and practice self-control among celestial women. These sages perform penance in a place where they already possess what other sages strive for through austerities.
राजा—उत्सर्पिणी खलु महतां प्रार्थना । (परिक्रम्य । आकाशे)अये वृद्धशाकल्य किमनुतिष्ठति भगवान्मारीचः । किं ब्रवीषि । दाक्षायण्या प्रतिव्रतार्धमधिकृत्य पृष्टस्तस्यै महर्षिपत्नीसहितायै कथयतीति ।
मातलिः—(कर्णं दत्त्वा)अये प्रतिपाल्यावसरः खलु प्रस्तावः ।
राजा—(राजानमवलोक्य)अस्मिन्नशोकवृक्षमूले तावदास्तामायुष्मान्यावत्त्वामिन्द्रगुरवे निवेदयितुमन्तरान्वेषी भवामि ।
मातलिः—यथा भवान्मन्यते (इति स्थितः)
राजा—आयुष्मन्साधयाम्यहम् । (इति निष्क्रान्तः)
(निमित्तं सूचयित्वा)
७.१३
मनोरथाय नाशंसे किं बाहो स्पन्दसे वृथा ।
पूर्वावधीरितं श्रेयो दुःखं हि परिवर्तते ॥
पूर्वावधीरितं श्रेयो दुःखं हि परिवर्तते ॥
Summary
AI
O arm, why do you throb in vain? I do not hope for the fulfillment of my desire. For good fortune, once rejected, transforms into sorrow.
॥ इति सप्तमोऽङ्कः ॥
Other texts to read
About
Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.