Loading data... On slow networks this could take a few minutes.
100%
॥ अथ पञ्चमोऽङ्कः ॥
विदु—(ततः प्रविशत्यासनस्हो राजा विदूषकश्च)
(कर्णं दत्त्वा) भो वयस्य संगीतशालान्तरेऽवधानं देहि ।
राजा—कलविशुद्धाया गीतेः स्वरसंयोगः श्रूयते । जाने तत्रभवती हंसपदिका वर्णपरिचयं करोतीति ।
तूष्णीं भव । यावदाकर्णयामि । (आकाशे गीयते)
विदु—अहो रागपरिवाहिणी गीतिः ।
रा—किं तावद्गीत्या अवगतोऽक्षरार्थः ।
विदु—(स्मितं कृत्वा) सकृत्कृतप्रणयोऽयं जनः । तदस्या देवीं वसुमतीमन्तरेण महदुपालम्भनं गतोऽस्मि । सखे माधव्य मद्वचनादुच्यतां हंसपदिका । निपुणमुपालब्धाः स्म इति ।
रा—यद्भवानाज्ञापयति । (उत्थाय भो वयस्य गृहीतस्य तया परकीयैर्हस्तैः शिखण्डके ताड्यमानस्याप्सरसा वीतरागस्येव नास्तीदानीं मे मोक्षः ।
विदु—गच्छ । नागरिकवृत्त्या संज्ञापयैनाम् ।
रा—का गतिः । (इति निष्क्रान्ताः)
(आत्मगतम्) किं नु खलु गीतमेवं विधार्थमाकर्ण्येष्टजनविरहाद् ऋतेऽपि बलवदुत्कण्ठितोऽस्मि । अथवा ।
(इति पर्याकुलस्तिष्ठति)
कञ्चुकी—(ततः प्रविशति कञ्चुकी)
अहो नु खल्वीदृशीमवस्थां प्रतिपन्नोऽस्मि ।
भो कामं धर्मकार्यमनतिपात्यं देवस्य । तथापीदानीमेव धर्मासनादुत्थिताय पुनरुपरोधकारि कण्वशिष्यागमनमस्मै नोत्सहे निवेदयितुम् । अथवाविश्रमोऽयं लोकतन्त्राधिकारः । कुतः ।
५.४
भानुः सकृद्युक्ततुरङ्ग एव
रात्रिं दिवं गन्धवहः प्रयाति ।
शेषः सदा एवाहितभूमिभारः
षष्ठांशवृत्तेरपि धर्म एषः ॥
Summary AI The sun yokes his horses only once a day, the wind blows day and night, and the serpent Shesha always bears the earth's burden. This is also the perpetual duty of a king, who lives on a sixth of his subjects' produce.
यावन्नियोगमनुतिष्ठामि । (परिक्रम्यावलोक्य च)एष देवः
रा—(उपगम्य) जयतु जयतु देवः । एते खलु हिमगिरेरुपत्यकारण्यवासिनः काश्यपसंदेशमादाय सस्त्रीकास्तपस्विनः संप्राप्ताः । श्रुत्वा देवः प्रमाणम् ।
कञ्चुकी—(सादरम्) किं काश्यपसंदेशहारिणः ।
रा—अथ किम् ।
कञ्चुकी—तेन हि मद्वचनाद्विज्ञाप्यतामुपाध्याह सोमरातः । अमूनाश्रमवासिनः श्रौतेन विधिना सत्कृत्य स्वयमेव प्रवेशयितुमर्हसीति । अहमप्यत्र तपस्विदर्शनोचिते प्रदेशे स्थितः प्रतिपालयामि ।
रा—यदाज्ञापयति देवः (इति निष्क्रान्तः)
प्रतिहारी—(उत्थाय) वेत्रवति अग्निशरणमार्गमादेशय ।
रा—इत इतो देवः ।
(परिक्रामति । अधिकारखेदं निरूप्य) सर्वः प्रार्थितमर्थमधिगम्य सुखी संपद्यते जन्तुः । राज्ञां तु चरितार्थता दुःखोत्तरैव ।
५.६
औत्सुक्यमात्रमवसाययति प्रतिष्ठा
क्लिश्नाति लब्धपरिपालनवृत्तिरेव ।
नातिश्रमापनयनाय यथा श्रमाय
राज्यं स्वहस्तधृतदण्डमिवातपत्रम् ॥
Summary AI Attaining a high position only ends the initial eagerness; the duty of protecting what has been gained is what causes distress. Kingship is like a royal umbrella held by one's own hand; it is more for exertion than for removing great fatigue.
विजयतां देवः ।
द्वितीयः
प्रतिहारी—एते क्लान्तमनसः पुनर्नवीकृताः स्मः । (इति परिक्रामति)
रा—एष अभिनवसंमार्जनसश्रीकः संनिहितहोमधेनुरग्निशरणालिन्दः । आरोहतु देवः ।
(आरुह्य परिजनांसावलम्बी तिष्ठति) वेत्रवति किमुद्दिश्य भगवता काश्यपेन मत्सकाशम् ऋषयः प्रेषिताः स्युः ।
सुचरितनन्दिन ऋषयो देवं सभाजयितुमागता इति तर्कयामि ।
कञ्चुकी—(ततः प्रविशन्ति गौतमी सहिताः शकुन्तलां पुरस्कृत्य मुनयः । पुरश्चैषां कञ्चुकी पुरोहितश्च)
शार्ङ्गरव—इत इतो भवन्तः ।
शारद्वत ।
स्थाने भवान्पुरप्रवेशादित्थं भूतः संवृत्तः । अहमपि
५.११
अभ्यक्तमपि स्नातः
शुचिरशुचिमिव प्रबुद्ध इव सुप्तम् ।
बद्धमिव स्वैरगति-
र्जनमिह सुखसङ्गिनमवैमि ॥
Summary AI I, who am bathed, regard the pleasure-seeking person here as though he were anointed with oil; though pure, I see him as impure; though awake, as asleep; though free-moving, as one who is bound.
गौतमी—(निमित्तं सूचयित्वा)अहो किं मे वामेतरन्नयनं विस्फुरति ।
पुरोहित—जाते प्रतिहतममङ्गलम् । सुखानि ते भर्तृकुलदेवता वितरन्तु (इति परिक्रामति)
शार्ङ्गरव—(राजानं निर्दिश्य भो भोस्तपस्विनः असावत्रभवान्वर्णाश्रमाणां रक्षिता प्रागेव मुक्तासनो वः प्रतिपालयति । पश्यत एनम् ।
भो महाब्राह्मण काममेतदभिनन्दनीयं तथापि वयमत्र मध्यस्थाः । कुतः
॥ इति पञ्चमोऽङ्कः ॥
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.