विदु—(ततः प्रविशत्यासनस्हो राजा विदूषकश्च)
(कर्णं दत्त्वा) भो वयस्य संगीतशालान्तरेऽवधानं देहि ।
राजा—कलविशुद्धाया गीतेः स्वरसंयोगः श्रूयते । जाने तत्रभवती हंसपदिका वर्णपरिचयं करोतीति ।
तूष्णीं भव । यावदाकर्णयामि । (आकाशे गीयते)
५.१
अभिनवमधुलोलुपस्त्वं तथा परिचुम्ब्य चूतमञ्जरीम् । कमलवसतिमात्रनिर्वृतो मधुकर विस्मृतोऽस्येनां कथम् ॥
Summary
AI
O bee, having once eagerly kissed the mango blossom, greedy for its fresh honey, how is it that you have now forgotten her, content merely with dwelling in a lotus?
विदु—अहो रागपरिवाहिणी गीतिः ।
रा—किं तावद्गीत्या अवगतोऽक्षरार्थः ।
विदु—(स्मितं कृत्वा) सकृत्कृतप्रणयोऽयं जनः । तदस्या देवीं वसुमतीमन्तरेण महदुपालम्भनं गतोऽस्मि । सखे माधव्य मद्वचनादुच्यतां हंसपदिका । निपुणमुपालब्धाः स्म इति ।
रा—यद्भवानाज्ञापयति । (उत्थाय भो वयस्य गृहीतस्य तया परकीयैर्हस्तैः शिखण्डके ताड्यमानस्याप्सरसा वीतरागस्येव नास्तीदानीं मे मोक्षः ।
विदु—गच्छ । नागरिकवृत्त्या संज्ञापयैनाम् ।
रा—का गतिः । (इति निष्क्रान्ताः)
(आत्मगतम्) किं नु खलु गीतमेवं विधार्थमाकर्ण्येष्टजनविरहाद् ऋतेऽपि बलवदुत्कण्ठितोऽस्मि । अथवा ।
५.२
रम्याणि वीक्ष्य मधुरांश्च निशम्य शब्दा-
न्पर्युत्सुको भवति यत्सुखितोऽपि जन्तुः ।
तच्चेतसा स्मरति नूनमबोधपूर्वं
भावस्थिराणि जननान्तरसौहृदानि ॥
न्पर्युत्सुको भवति यत्सुखितोऽपि जन्तुः ।
तच्चेतसा स्मरति नूनमबोधपूर्वं
भावस्थिराणि जननान्तरसौहृदानि ॥
Summary
AI
When a person, even if happy, becomes wistful on seeing beautiful things and hearing sweet sounds, it is because their mind unconsciously remembers friendships from past lives, which are firmly rooted in their inner nature.
(इति पर्याकुलस्तिष्ठति)
कञ्चुकी—(ततः प्रविशति कञ्चुकी)
अहो नु खल्वीदृशीमवस्थां प्रतिपन्नोऽस्मि ।
५.३
आचार इत्यवहितेन मया गृहीता
या वेत्रयष्टिरवरोधगृहेषु राज्ञः ।
काले गते बहुतिथे मम सैव जाता
प्रस्थानविक्लवगतेरवलम्बनार्था ॥
या वेत्रयष्टिरवरोधगृहेषु राज्ञः ।
काले गते बहुतिथे मम सैव जाता
प्रस्थानविक्लवगतेरवलम्बनार्था ॥
Summary
AI
The cane staff that I, being attentive, held in the king's inner apartments as a matter of duty, has now, after much time has passed, become a means of support for my faltering steps at the time of departure.
भो कामं धर्मकार्यमनतिपात्यं देवस्य । तथापीदानीमेव धर्मासनादुत्थिताय पुनरुपरोधकारि कण्वशिष्यागमनमस्मै नोत्सहे निवेदयितुम् । अथवाविश्रमोऽयं लोकतन्त्राधिकारः । कुतः ।
५.४
भानुः सकृद्युक्ततुरङ्ग एव
रात्रिं दिवं गन्धवहः प्रयाति ।
शेषः सदा एवाहितभूमिभारः
षष्ठांशवृत्तेरपि धर्म एषः ॥
रात्रिं दिवं गन्धवहः प्रयाति ।
शेषः सदा एवाहितभूमिभारः
षष्ठांशवृत्तेरपि धर्म एषः ॥
Summary
AI
The sun yokes his horses only once a day, the wind blows day and night, and the serpent Shesha always bears the earth's burden. This is also the perpetual duty of a king, who lives on a sixth of his subjects' produce.
यावन्नियोगमनुतिष्ठामि । (परिक्रम्यावलोक्य च)एष देवः
५.५
प्रजाः प्रजाः स्वा इव तन्त्रयित्वा
निषेवते श्रान्तमना विविक्तम् ।
यूथानि संचार्य रविप्रतप्तः
शीतं दिवा स्थानमिव द्विपेन्द्रः ॥
निषेवते श्रान्तमना विविक्तम् ।
यूथानि संचार्य रविप्रतप्तः
शीतं दिवा स्थानमिव द्विपेन्द्रः ॥
Summary
AI
After governing his subjects like his own children, the king, weary in mind, seeks solitude. This is like a great elephant, scorched by the sun, who after leading his herds, seeks a cool place during the day.
रा—(उपगम्य) जयतु जयतु देवः । एते खलु हिमगिरेरुपत्यकारण्यवासिनः काश्यपसंदेशमादाय सस्त्रीकास्तपस्विनः संप्राप्ताः । श्रुत्वा देवः प्रमाणम् ।
कञ्चुकी—(सादरम्) किं काश्यपसंदेशहारिणः ।
रा—अथ किम् ।
कञ्चुकी—तेन हि मद्वचनाद्विज्ञाप्यतामुपाध्याह सोमरातः । अमूनाश्रमवासिनः श्रौतेन विधिना सत्कृत्य स्वयमेव प्रवेशयितुमर्हसीति । अहमप्यत्र तपस्विदर्शनोचिते प्रदेशे स्थितः प्रतिपालयामि ।
रा—यदाज्ञापयति देवः (इति निष्क्रान्तः)
प्रतिहारी—(उत्थाय) वेत्रवति अग्निशरणमार्गमादेशय ।
रा—इत इतो देवः ।
(परिक्रामति । अधिकारखेदं निरूप्य) सर्वः प्रार्थितमर्थमधिगम्य सुखी संपद्यते जन्तुः । राज्ञां तु चरितार्थता दुःखोत्तरैव ।
५.६
औत्सुक्यमात्रमवसाययति प्रतिष्ठा
क्लिश्नाति लब्धपरिपालनवृत्तिरेव ।
नातिश्रमापनयनाय यथा श्रमाय
राज्यं स्वहस्तधृतदण्डमिवातपत्रम् ॥
क्लिश्नाति लब्धपरिपालनवृत्तिरेव ।
नातिश्रमापनयनाय यथा श्रमाय
राज्यं स्वहस्तधृतदण्डमिवातपत्रम् ॥
Summary
AI
Attaining a high position only ends the initial eagerness; the duty of protecting what has been gained is what causes distress. Kingship is like a royal umbrella held by one's own hand; it is more for exertion than for removing great fatigue.
विजयतां देवः ।
५.७
प्रथमः स्वसुखनिरभिलाषः खिद्यसे लोकहेतोः प्रतिदिनमथवा ते वृत्तिरेवं विधैव । अनुभवति हि मूर्ध्ना पदप तीव्रमुष्णम् शमयति परितापं छायया संश्रितानाम् ॥
Summary
AI
Indifferent to your own happiness, you toil daily for the sake of your people. Or perhaps, this is just your nature. A tree, for instance, endures intense heat on its crown, yet with its shade, it alleviates the suffering of those who take shelter under it.
द्वितीयः
५.८
नियमयसि विमार्गप्रस्थितानात्तदण्डः
प्रशमयसि विवादं कल्पसे रक्षणाय ।
अतनुषु विभवेषु ज्ञातयः सन्तु नाम
त्वयि तु परिसमाप्तं बन्धुकृत्य प्रजानाम् ॥
प्रशमयसि विवादं कल्पसे रक्षणाय ।
अतनुषु विभवेषु ज्ञातयः सन्तु नाम
त्वयि तु परिसमाप्तं बन्धुकृत्य प्रजानाम् ॥
Summary
AI
Wielding your scepter, you restrain those who stray onto the wrong path, you settle disputes, and you are ever ready for protection. While relatives may exist for sharing vast wealth, in you, all the duties of a kinsman to the people are fulfilled.
प्रतिहारी—एते क्लान्तमनसः पुनर्नवीकृताः स्मः । (इति परिक्रामति)
रा—एष अभिनवसंमार्जनसश्रीकः संनिहितहोमधेनुरग्निशरणालिन्दः । आरोहतु देवः ।
(आरुह्य परिजनांसावलम्बी तिष्ठति) वेत्रवति किमुद्दिश्य भगवता काश्यपेन मत्सकाशम् ऋषयः प्रेषिताः स्युः ।
५.९
किं तावद्व्रतिनामुपोढतपसां विघ्नैस्तपो दूषितम्
धर्मारण्यचरेषु केनचिदुत प्राणिष्वसच्चेष्टितम् ।
आहोस्वित्प्रसवो ममापचरितैर्विष्टम्भितो वीरुधाम्
इत्यारूढबहुप्रतर्कमपरिच्छेदाकुलं मे मनः ॥
धर्मारण्यचरेषु केनचिदुत प्राणिष्वसच्चेष्टितम् ।
आहोस्वित्प्रसवो ममापचरितैर्विष्टम्भितो वीरुधाम्
इत्यारूढबहुप्रतर्कमपरिच्छेदाकुलं मे मनः ॥
Summary
AI
My mind, filled with many conjectures and agitated by uncertainty, wonders: Has the penance of the ascetics, rich in austerity, been spoiled by obstacles? Or has someone misbehaved towards the creatures in the sacred forest? Or has the flowering of the creepers been hindered by my own misdeeds?
सुचरितनन्दिन ऋषयो देवं सभाजयितुमागता इति तर्कयामि ।
कञ्चुकी—(ततः प्रविशन्ति गौतमी सहिताः शकुन्तलां पुरस्कृत्य मुनयः । पुरश्चैषां कञ्चुकी पुरोहितश्च)
शार्ङ्गरव—इत इतो भवन्तः ।
शारद्वत ।
५.१०
महाभागः कामं नरपतिरभिन्नस्थितिरसौ
न कश्चिद्वर्णानामपथमपकृष्टोऽपि भजते ।
तथापीदं शश्वत्परिचितविविक्तेन मनसा
जनाकीर्णं मन्ये हुतवहपरीतं गृहमिव ॥
न कश्चिद्वर्णानामपथमपकृष्टोऽपि भजते ।
तथापीदं शश्वत्परिचितविविक्तेन मनसा
जनाकीर्णं मन्ये हुतवहपरीतं गृहमिव ॥
Summary
AI
This king is indeed noble and unwavering in his duty; not even the lowest of the social classes strays from the right path. Nevertheless, to my mind, which is accustomed to constant solitude, this crowded place feels like a house engulfed in fire.
स्थाने भवान्पुरप्रवेशादित्थं भूतः संवृत्तः । अहमपि
५.११
अभ्यक्तमपि स्नातः
शुचिरशुचिमिव प्रबुद्ध इव सुप्तम् ।
बद्धमिव स्वैरगति-
र्जनमिह सुखसङ्गिनमवैमि ॥
शुचिरशुचिमिव प्रबुद्ध इव सुप्तम् ।
बद्धमिव स्वैरगति-
र्जनमिह सुखसङ्गिनमवैमि ॥
Summary
AI
I, who am bathed, regard the pleasure-seeking person here as though he were anointed with oil; though pure, I see him as impure; though awake, as asleep; though free-moving, as one who is bound.
गौतमी—(निमित्तं सूचयित्वा)अहो किं मे वामेतरन्नयनं विस्फुरति ।
पुरोहित—जाते प्रतिहतममङ्गलम् । सुखानि ते भर्तृकुलदेवता वितरन्तु (इति परिक्रामति)
शार्ङ्गरव—(राजानं निर्दिश्य भो भोस्तपस्विनः असावत्रभवान्वर्णाश्रमाणां रक्षिता प्रागेव मुक्तासनो वः प्रतिपालयति । पश्यत एनम् ।
भो महाब्राह्मण काममेतदभिनन्दनीयं तथापि वयमत्र मध्यस्थाः । कुतः
५.१२
भवन्ति नंरास्तरवः फलागमै-
र्नवाम्बुभिर्दूरविलम्बिनो घनाः ।
अनुद्धताः सत्पुरुषाः समृद्धिभिः
स्वभाव एवैष परोपकारिणाम् ॥
र्नवाम्बुभिर्दूरविलम्बिनो घनाः ।
अनुद्धताः सत्पुरुषाः समृद्धिभिः
स्वभाव एवैष परोपकारिणाम् ॥
Summary
AI
Trees bend down with the arrival of fruit; clouds hang low, heavy with fresh water; noble men are not arrogant with prosperity. This is the very nature of those who help others.
॥ इति पञ्चमोऽङ्कः ॥
Other texts to read
About
Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.