Loading data... On slow networks this could take a few minutes.
100%
॥ अथ प्रथमोऽङ्कः ॥
आर्य अभिरूपभूयिष्ठा परिषदियम् । अद्य खलु कालिदासग्रथितवस्तुना
नटी—नवेनाभिज्ञानशाकुन्तलाख्येन नाटकेनोपस्थातव्यमस्माभिः । तत्प्रतिपात्रमाधीयतां यत्नः ।
सुविहितप्रयोगतयार्यस्य न किमपि परिहास्यते ।
सूत्रधारः
आर्ये कथयामि ते भूतार्थम् ।
१.२
आ परितोषाद्विदुषां न साधु मन्ये प्रयोगविज्ञानम् ।
बलवदपि शिक्षितानामात्मन्यप्रत्ययं चेतः ॥
Summary AI I do not consider my knowledge of dramatic performance to be perfect until the learned audience is satisfied. Even for the highly trained, the mind is often lacking in self-confidence.
सूत्रधारः—आर्य एवमेतत् । अनन्तरकरणीयमार्य आज्ञापयतु ।
किमन्यदस्याः परिषदः श्रुतिप्रसादनतः । तदिममेव तावदचिरप्रवृत्तमुपभोगक्षमं ग्रीष्मसमयमधिकृत्य गीयताम् । संप्रति हि
१.३
सुभगसलिलावगाहाः
पाटलसंसर्गसुरभिवनवाताः ।
प्रच्छायसुलभनिद्रा
दिवसाः परिणामरमणीयाः ॥
Summary AI These summer days are pleasant for bathing, the forest breezes are fragrant with Patala flowers, sleep is easily found in deep shade, and the evenings are beautiful.
तथा (इति गायति)
नटी—आर्य साधु गीतम् । अहो रागबद्धचित्तवृत्तिरालिखित इव सर्वतो रङ्गः । तदिदानीं कतमत्प्रकरणमाश्रित्य एनमाराधयामः ।
सूत्रधारः—नन्वार्यमिश्रैः प्रथममेवाज्ञप्तमभिज्ञानशकुन्तलं नाम अपूर्वं नाटकं प्रयोगे अधिक्रियतामिति ।
आर्ये सम्यगनुभोधितोऽस्मि । अस्मिन्क्षणे विस्मृतं खलु मया तत् । कुतः ।
(इति निष्क्रान्तौ )
(प्रस्थावना)
सूतः—(ततः प्रविशति मृगानुसारी सशरचापहस्तो राजा रथेन सूतश्च)
(राजानं मृतं चावलोक्य)आयुष्मन् ।
सूत दूरममुना सारङ्गेण वयमाकृष्टाः । अयं पुनरितानीमपि
सूतः—(सविस्मयम्) तदेष कथमनुपतत एव मे प्रयत्नप्रेक्षणीयः संवृत्तः ।
राजा—आयुष्मन्नुद्घातिनी भूमिरिति मया रश्मिसंयमनाद्रथस्य मन्दीकृतो वेगः । तेन मृग एष विप्रकृष्टान्तरः संवृत्तः । संप्रति समदेशवर्तिनस्ते न दुरासदो भविष्यति ।
सूतः—तेन हि मुच्यन्तामभीषवः ।
यदाज्ञापयत्यायुष्मान् । (रथवेगं निरूप्य)आयुष्मन्पश्य पश्य ।
१.८
मुक्तेषु रश्मिषु निरायतपूर्वकाया
निष्कम्पचामरशिखा निभृतोर्ध्वकर्णाः ।
आत्मोद्धतैरपि रजोभिरलङ्घनीया
धावन्त्यमी मृगजवाक्षमयेव रथ्याः ॥
Summary AI With reins loosened, these chariot-horses run as if intolerant of the deer's speed. Their forebodies are stretched out, the plumes on their heads are motionless, their ears are erect, and they cannot be overtaken even by the dust they themselves raise.
सत्यम् । अतीत्य हरितो हरींश्च वर्तन्ते वाजिनः । तथा हि ।
सूत पश्य एनं व्यापद्यमानम् । (इति शरसंधानं नाटयति)
(नेपथ्ये)
सूत—भो भो राजन्नाश्रममृगोऽयं न हन्वव्यो न हन्तव्यः ।
राजा—(आकर्ण्यावलोक्य च)आयुष्मन्नस्य खलु ते बाणपातवर्तिनः कृष्टसारस्यान्तरे तपस्विन उपस्थिताः ।
सूत—(ससंभ्रमम्) तेन हि प्रगृह्यन्तां वाजिनः ।
वैखानसः—तथा । (इति रथं स्थापयति)
(हस्तमुद्यम्य) राजन्नाश्रममृगोऽयं न हन्तव्यो न हन्तव्यः ।
वैखानसः—एष प्रतिसंहृतः (इति यथोक्तं करोति)
सदृशमेतत्पुरुवंशप्रदीपस्य भवतः ।
१.१२
जन्म यस्य पुरोर्वंशे युक्तरूपमिदं तव ।
पुत्रमेवं गुणोपेतं चक्रवर्तिनमाप्नुहि ॥
Summary AI This behavior is befitting of you, whose birth is in the lineage of Puru. May you obtain a son endowed with such virtues, who will be a universal emperor.
(बाहू उद्यम्य) सर्वथा चक्रवर्तिनं पुत्रमाप्नुहि ।
वैखान्स—(सप्रणामम्) प्रतिगृतीतं ब्राह्मणवचनम् ।
राजन्समिदाहरणाय प्रस्थिता वयम् । एष खलु कण्वस्य कुलपतेरनुमालिनीतीरमाश्रमो दृश्यते । न चेदन्यकार्यातिपातः प्रविश्य प्रतिगृह्यतामातिथेयः सत्कारः । अपि च ।
वैखानस—अपि संनिहितोऽत्र कुलपतिः ।
राजा—इदानीमेव दुहितरं शकुन्तलामतिथिसत्काराय नियुज्य दैवमस्याः प्रतिकूलं शमयितुं सोमतीर्थं गतः ।
वैखानस—भवतु । तामेव पश्यामि । सा खलु विदितभक्तिं मां महर्षेः करिष्यति ।
राजा—साधयामस्तावत् (इति सशिष्यो निष्क्रान्तः)
॥ इति प्रथमोऽङ्कः ॥
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.