Loading data... On slow networks this could take a few minutes.
100%
॥ अथ तृतीयोऽङ्कः ॥
शिष्य—(ततः प्रविशति कुशानादाय यजमानशिष्यः)
अहो महानुभावः पार्थिवो दुष्यन्तः । यत्प्रविष्टमात्र एवाश्रमं तत्रभवति निरुपद्रवाणि नः कर्माणि संवृत्तानि ।
३.१
का कथा बाणसंधाने ज्याशब्देनैव दूरतः ।
हुंकारेणेव धनुषः स हि विघ्नानपोहति ॥
Summary AI What need is there to talk about fitting an arrow to the bow? For he, merely by the sound of his bowstring from afar, like the roar of the bow itself, removes all obstacles.
यावदिमान्वेदिसंस्तरणार्थं दर्भान् ऋत्विग्भ्य उपहरामि । (परिक्रम्यावलोक्य च । आकाशे) प्रियंवदे कस्य इदमुशीरानुलेपनं मृणालवन्ति च नलिनीपत्राणि नीयन्ते । (श्रुतिमभिनीय) किं ब्रवीषि । आतपलङ्घनाद्बलवदस्वस्था शकुन्तला तस्याः शरीरनिर्वापणायेति । तर्हि यत्नादुपचर्यताम् । सा खलु भगवतः कण्वस्य कुलपतेरुच्छ्वसितम् । अहमपि तावद्वैतानिकं शान्त्युदकमस्यै गौतमीहस्ते विसर्जयिष्यामि ।
(इति निष्क्रान्तः) विष्कम्भकः ।
राजा—(ततः प्रविशति कामयमानावस्थो राजा)
(सचिन्तं निःश्वस्य)
(मदनबाधां निरूप्य) भगवन्कुसुमायुध त्वया चन्द्रमसा च विश्वसनीयाभ्यामतिसंधीयते कामिजनसार्थः । कुतः ।
अथवा ।
३.४
अद्य अपि नूनं हरकोपवह्निन-
स्त्वयि ज्वलत्यौर्व इवाम्बुराशौ ।
त्वमन्यथा मन्मथ मद्विधानां
भस्मावशेषः कथमित्थमुष्णः ॥
Summary AI O God of Love, your nature of having flower-arrows and the moon's nature of having cool rays—both these seem untrue for people like me. The moon releases fire with its frost-cored rays, and you too make your flower-arrows as hard as thunderbolts.
३.५
अनिशमपि मकरकेतु-
र्मनओर्रुजमावहन्नभिमतो मे ।
यदि मदिरायतनयनां
तामधिकृत्य प्रहरतीति ॥
Summary AI Even though the fish-bannered god (Kama) constantly brings me heartache, he is dear to me if he strikes me on account of that girl with intoxicatingly large eyes.
(सखेदं परिक्रम्य) क्व नु खलु संस्थिते कर्मणि सदस्यैरनुज्ञातः खिन्नमात्मानं विनोदयामि । (निःश्वस्य) किं नु खलु मे प्रियादर्शनाद् ऋते शरणमन्यत् ।
यावदेनामन्विष्यामि । (सूर्यमवलोक्य)इमामुग्रातपवेलां प्रायेण लतावलयवत्सु मालिनीतीरेषु ससखीजना शकुन्तला गमयति । तत्रैव तावद्गच्छामि । (परिक्रम्य संस्पर्शं रूपयित्वा)अहो प्रवातसुभगोऽयमुद्देशः ।
३.६
शक्यमरविन्दसुरभिः कणवाही मालिनीतरङ्गाणाम् ।
अङ्गैरनङ्गतप्तैरविरलमालिङ्गितुं पवनः ॥
Summary AI It is possible to closely embrace the wind, which is fragrant with lotuses and carries droplets from the waves of the Malini river, with limbs heated by the god of love.
(परिक्रम्यावलोक्य च)अस्मिन्वेतसपरिक्षिप्ते लतामण्डपे संनिहितया शकुन्तलया भवितव्यम् । तथा हि ।
यावद्विटपान्तरेणावलोकयामि । (परिक्रम्य तथा कृत्वा । सहर्षम्)अये लब्धं नेत्रनिर्वाणम् ।
एषा मे मनोरथप्रियतमा सकुसुमास्तरणं शिलापट्टमधिशयाना सखीभ्यामन्वास्यते । भवतु । श्रोष्याम्यासां विश्रम्भकथितानि । (इति विलोकयन्स्थितः)
सख्यौ—(ततः प्रविशति यथोक्तव्यापारा सह सखीभ्यां शकुन्तला)
शकु—(उपवीज्य । सस्नेहम्) हला शकुन्तरे अपि सुखयति नलिनीपत्रवातः ।
किं वीजयतो मां सख्यौ ।
राजा—(सख्यौ विषादं नाटयित्वा परस्परमवलोकयतः)
बलवदस्वस्थशरीरा शकुन्तला दृश्यते ।
(सवितर्कम्) तत्किमयमातपदोषः स्यादुत यथा मे मनसि वर्तते । (साभिलाषं निर्वर्ण्य)अथ वा कृतं संदेहेन ।
अन—(जनान्तिकम्)अनसूये तस्य राजर्षेः प्रथमदर्शनारभ्य पर्युत्सुकेव शकुन्तला । किं नु खल्वस्यास्तन्निमित्तोऽयमातङ्को भवेत् ।
शकु—सखि मम अपीदृश्याशङ्का हृदयस्य । भवतु । प्रवक्ष्यामि तावदेनाम् (प्रकाशम्) । सखि प्रष्टव्यासि किमपि । बलवान्खलु ते संतापः ।
अन—(पूर्वार्धेन शयनादुत्थाय) हला किं वक्तुकामासि ।
हला शकुन्तले अनभ्यन्तरे खल्वावां मदनगतस्य वृत्तान्तस्य । किं तु यादृशीतिहासबन्धेषु कामयमानानामवस्था श्रूयते तादृशीं तव पश्यामि ।
राजा—कथय किं निमित्तं संतापः । विकारं खलु परमार्थतोऽज्ञात्वानारम्भप्रतीकारस्य ।
शकु—अनसूयामप्यनुगतो मदीयस्तर्कः । न हि स्वामिप्रायेण मे दर्शनम् ।
प्रियंवदा—(आत्मगतम्) बलवान्खलु मेऽभिनिवेशः । इदानीमपि सहसैतयोर्न शक्नोमि निवेदयितुम् ।
राजा—सखि शकुन्तले सुष्ठु एषा भणति । किमात्मन आतङ्कमुपेक्षसे । अनुदिवसं खलु परिहीयसेऽङ्गैः । केवलं लावण्यमयी छाया त्वां न मुञ्चति ।
अवितथमाह प्रियंवदा । तथा हि
उभे—सखि कस्य वान्यस्य कथयिष्यामि । किंत्वायासयित्रीदानीं वां भविष्यामि ।
अत एव खलु निर्बन्ध । स्निग्धजनसंविभक्तं हि दुःखं सह्यवेदनं भवति ।
राजा
३.१०
पृष्टा जनेन समदुःखसुखेन बाला
नेयं न वक्ष्यति मनोगतमाधिहेतुम् ।
दृष्टो विवृत्य बहुशोऽप्यनया सतृष्णम्
अत्रान्तरे श्रवणकातरतां गतोऽस्मि ॥
Summary AI It is not that this girl, when asked by her friends who share her joys and sorrows, will not speak the cause of her mental anguish. Meanwhile, having been looked at by her longingly many times as she turned around, I have become anxious to hear it.
उभे—सखि यतःप्रभृति मम दर्शनपथमागतः स तपोवनरक्षिता राजर्षिः (इत्यर्थोक्ते लजां नाटयति)
शकु—कथयतु प्रियसखी ।
राजा—तत आरभ्य तद्गतेनाभिलाषेण एतदवस्थास्मि संवृत्ता ।
(सहर्षम्) श्रुतं श्रोतव्यम् ।
३.११
स्मर एव तापहेतुर्निर्वापयिता स एव मे जातः ।
दिवस इवाभ्रश्यामस्तपात्यये जीवलोकस्य ॥
Summary AI The god of love, who was the cause of my torment, has himself become my soother, just as a day dark with clouds at the end of the hot season becomes a comfort for the world of living beings.
राजा—तद्यदि वामनुमतं तथा वर्तेथां यथा तस्य राजर्षेरनुकम्पनीया भवामि । अन्यथावश्यं सिञ्चत मे तिलोदकम् ।
प्रियंवदा—संशयछेदि वचनम् ।
(जनान्तिकम्)अनसूये दूरगतमन्मथाक्षमेयं कालहरणस्य ।
अन—यस्मिन्बद्धभावैषा स ललामभूतः पौरवाणाम् । तद्युक्तमस्या अभिलाषोऽभिनन्दितुम् ।
॥ इति तृतीयोऽङ्कः ॥
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.